पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सगे:]. पितुहि यदतिक्रान्तं तत् साधुकुरुते सुतः एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।

'येन शक्यं, महाप्राज्ञ ! प्रजानां परिपालनम् ।। १९ ।। ननु क्षत्रियस्याप्यस्ति वानप्रस्थाश्रमजट दिसम्बन्ध इत्याशङ्कय, नायं प्रथमः कल्प इत्याह -एष इत्यादि । येन – अभिषेचनेन । परिपालनामति । तद्रूपधर्मसंपादनमित्यर्थः ॥ १९ ॥ कश्च प्रत्यक्षमुत्सृज्य + संशयस्थमलक्षणम् । आयतिस्थं चरेद्धर्मं क्षत्रबन्धुर निश्चितम् || २० |॥ ननु अस्ति बनाश्रमेणापि धर्मसंपादनमित्यत्राह – कश्चेत्यादि । प्रत्यक्षं सुखसाधनधर्मं – प्रजापरिपालनं उत्सृज्य संशयस्थ- 1-प्रत्यक्षा- गम्यत्वात् 'कोहि तद्वेद ? यद्यमुष्मिन् लोकेऽस्ति वा न वा ?' इति श्रुत्याडमिनीयमानसन्देहास्पदसुखसाधनम्, अलक्षणं - अश्रीलक्षणं- आयतिस्थ - 'उत्तरः काल आयतिः', उत्तरवयःप्राप्यं अनिश्चितं - अनित्यानुष्ठानं; न हि क्षत्रियस्य परिपालनवत् नित्यप्राप्तो बनवासः । नित्यत्वे तद्रहितदशरथादेरेव पतितत्वप्रसङ्गात् । एतादृशे धर्मकाले क्षत्रबन्धु:-बन्धुच्प्रत्ययान्तः ब्रह्मक्षत्रादिशब्दो निन्दावाची । क्षत्राणां बन्धुरिति असमस्तपदं तु क्षत्रियकुलसम्मतत्वार्थवाची । कश्चरेत् -- अनुतिष्ठेत्, न कोऽपि ॥ २० ॥ S अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि । धर्मेण चतुरो वर्णान् पालयन् क्लेशमानुहि ॥ २१ ॥ 401

  • अभिषेकस्य कथं धर्मत्वं ? इत्यत्राह - ग्रेनेति । प्रजापालनं हि क्षत्रियस्य

प्रथमो धर्मः ; स च मूर्धाभिषिक्ताधिकारक इति भावः । † 'स्वधर्मे निधनं श्रेयः परधर्मो भयावह: '— इति भावं हृदि निधायैवमुच्यते । ↑संशयस्थं–अप्रत्यक्षं, अङ्गलोपादि- संभावनया संशयितफल सिद्धिकं, अलक्षणं- लक्षणरहितं, क्रियाशक्तिरपूर्व वेति दुनिंरूपं- अनिश्चितं- क्षत्रियेण प्रथममिदमनुष्ठेयमिति केनापि प्रमाणेनानिश्चितम्- गो. राज्याभि- षेकस्य भोगरूपत्वामिमानवत: प्रत्याह अथेति । RAMAYANA-VOL III 26