पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सर्ग:] राजाऽपि बृद्धः संमोद्दात् चक्रे किश्चित् स्त्रिया बशः मातृवत् पित्राऽप्यन्याय्यमेवा चरितमित्याह - गुरुः क्रियावा- नित्यादि । क्रियावान् - कर्तृश्रेष्ठ इति यावत् । राजा पितेति यत् तत् तातं संसदि न परिगर्हेयम् । अपि चेदानीं प्रेतस्सन् दैवतं च – श्राद्धदैवतं च - वखादिखरूपत्वं च गत इति यत्, ततोऽपि न गर्हेयम् ।। ११ ।। w 399 को हि * धर्मार्थयोर्हीनं ईदृशं कर्म किल्बिषम् । स्त्रियाः प्रियं चिकीर्षुः सन् कुर्यात्, धर्मज्ञ ! धर्मवित् ।। किं तर्हि वस्तुतोऽस्ति गर्ह्यत्वं ? अस्त्येवेत्याह –– को हीत्यादि । को हि घर्मविदिति योजना ।। १२ ।। अन्तकाले हि भूतानि | मुह्यन्तीति पुराश्रुतिः । राज्ञैवं कुर्वता लोके ' प्रत्यक्षं सा श्रुतिः कृता ॥ १३ ॥ प्रत्यक्षं – प्रत्यक्षार्थम् ।। १३ ।।

  1. साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ।

तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ १४ ॥ साध्वर्थं-ज्येष्ठाभिषेक लक्षणम् ॥ १४ ॥

  • धर्मार्थयोहीनं-धर्मार्थाभ्यां हीनं, कामप्रधानमिति

मुखन्ति – मोहं प्राप्नुवन्ति - विपरीतबुद्धिं प्राप्नुवन्तीति यावत्- गो. विषमद्यैव पास्यामीत्युक्तकैकेयी क्रोधात् । तत्क्रोषभयादिति यावत्-ति. कैकेयीविषयमोहात् । यावत्- गो. + कोषात्- मोहात् -- साहसात् – सहसाकरणात्- अविमृश्यकारित्वादिति यावत् । तातस्य यदतिक्रान्तं—- यद्धर्मातिक्रमणं, तत् साध्वर्थमभिसन्धाय—समीचीनार्थं भवान् प्रत्याहरतु - निवर्तयतु- गो. स्मृत्वा 1 प्रत्यक्षा-च.