पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

394 6 रामभरतसंवाद: [भयोध्याकाण्ड: स स्वस्थो भव मा 'शोकः यात्वा चावस तो पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना, वदतां वर ! || ३६ ॥ सस्वस्थ इति । एवं शोचन्नित्यर्थः । मा शोकः शोको मास्तु । तां पुरी यात्वा - गत्वा – स्वस्थः त्वं वस | कथमेवं नियोग इत्यतः – तथेत्यादि । वशिना— सत्यवशगेन ॥ ३६ ।। - यत्रामपि तेनैव नियुक्तः पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् || ३७ || – यस्मिन् कृत्ये । तत्रैवाइमिति । तत्रैव प्रवृत्तः तत् यत्र - करिष्यामि ॥ ३७ ॥ न मया शासनं तस्य त्यक्तुं न्याय्यं, अरिन्दम ! ' तत् त्वयाऽपि सदा 'मान्यं स वै बन्धुः स नः पिता ॥ तद्वचः पितुरेवाहं सम्मतं धर्म चारिणः । कर्मणा पालयिष्यामि वनवासेन, राघव ! ॥ ३९ ॥ पितुर्वच एवाई कर्मणा - तदुचितव्यापारेण ॥ ३९ ॥ धार्मिकेणानृशंसेन नृपेण 'गुरुवर्तिना । भवितव्यं, नरव्याघ्र ! परलोकं जिगीषता ॥ ४० ॥ नृपेण - क्षत्रियेण परलोकं जिगीषता-घार्मिकत्वादिस्वभाववता भवितव्यम् ॥ ४० ॥

  • मद्विवासनं त्वयाऽपि मान्यमित्याहस स्वस्थ इत्यादिना - गो.

वनरूपे स्थाने - गो. ! तत्-ड. चारिणाम् च. 3 शोची:- ङ. + यत्र- उददर्ताङ, व. मान्य:-च. " गुणवर्तिना-ङ.