पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

390 रामभरतसंवाद: सह ब्रजति, सह निषीदति, सह मृत्युर्निवर्तत इति । दूरे देशे मृत्युं स्थापयित्वा स्वेनागन्तुं शक्यमित्यर्थः ॥ २२ ॥ [अयोध्याकाण्ड: गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः । जरया पुरुषो जीर्ण: * किं हि कृत्वा प्रभावयेत् ॥ २३ ॥ वलयः जराकृताः । किं हि कृत्वा – किं बलं प्राप्य प्रभावयेत् – प्रभुत्वं भावयेत् ॥ २३ ॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते ' रवौ । आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २४ ॥ + 2 हृष्यन्त्यात्ममुखं दृष्ट्वा नवं नवमिहागतम् । ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ।। २५ ।। नवं नवमिव - प्रागप्राप्तमिव आत्ममुखं - खखाभिमुखागतं ऋतूनां परिवर्तनं दृष्ट्वा मोहात् हृष्यति, नेदं युक्तमित्याह – ऋतूना- मित्यादि । परिवर्तः – पुनः परिवृत्तिः ॥ २५ ॥ यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयात कालमासाद्य कञ्चन ।। २६ ।।

  • किं हि कृत्वा - पूर्वोक्तोपद्रवपरिहारत्वेन कमुपायं कृत्वा आत्मानं प्रभुं कुर्यात्

इत्यर्थ:- गो. केन वोपायेन जरादिकं वारयेत्, न केनापीति भावः । + आदित्ये उदिते नन्दन्ति —– अर्थार्जनकालोऽयमागत इति । रवौ अस्तमितेऽपि नन्दन्ति - कामोपभोगकालोऽयमागत इति गो. अथवा अजामित्वादिना' कथं क्षपयितव्यं अहः ? ‘ कथं वेयं रजनी क्षपयितव्या' इत्यादिभावनया सूर्योदयं सूर्यास्तमयं च जनाः सानन्दं प्रतीक्षन्ते, जीवितक्षयं तु न जानन्त्यपि, अहो ! इतितात्पर्यकं वचनमिदम् ।

  • हृष्यन्त्यतुमुखं (पा.) ऋतुमुखं -ऋत्वागमं - गो.

1 sहनि-च, हृप्यन्त्यतुमुख-ऊ. च.