पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

360 भरतप्रार्थना 'आर्य ! तातः* परित्यज्य कृत्वा कर्म सुदुष्करम् 1 गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः ॥ ५ ॥ स्त्रिया नियुक्तः कैकेय्या मम मात्रा, परन्तप ! - अथ पूर्वसर्गे 'क नु तेऽभूत् पिता' इत्यादिना प्रथमपृष्टस्यै- वार्थस्य पुनः प्रश्न तस्यैवोत्तरमाह - आर्य तात इत्यादि । परि- त्यज्येति । अस्मान् सर्वान् इमं च लोकमिति शेषः । सुदुष्करमिति अतिघोरत्वात् ॥ ५ ॥ [अयोध्याकाण्ड: चकार 'सा महत्पापं इदमात्मयशोहरम् ॥ ६ ॥ सा चकारेति योजना ॥ ६ ॥ 3 सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥ ७ ॥ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि । अभिपिश्चस्व चाद्यैव | राज्येन मघवानिव ॥ ८ ॥ एवं पितृमरणे श्रुते तदुचितसर्वकृत्ये च कृते ततः परं यद्वक्तव्यं तत् भरतो ब्रूने–तस्य म इत्यादि ॥ ८ ॥ इमाः प्रकृतयः सर्वाः विधवा मातरश्च याः । त्वत्सकाश मनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥ ९ ॥

  • आर्य (पाठान्तरं ) स्वां परित्यज्य - विवास्य- गो. गोविन्दरा जरीत्या – अयं श्लोकः

उत्तवाक्यप्रस्तावार्थानुवादरूपः । राज्येन हेतुना-गो. परन्त्वेव व्याख्याने नन्तरर्गादीनाम गतिरेव । प्रतिपाद्यमानस्यार्थस्यात्रासः रूपत्वीकारेऽपि अवश्यवक्तव्यस्य द्वित्रमर्गेण अतो गोविन्दराजोक्तक्रम एव साधीयान् । राज्येऽस्मिन् । आर्य- ङ. झ. मम रामव-इ. न स्वरसः । 2 सुमंदसापं - ङ. 3 नरके- ङ.