पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्ग:] कश्चित् गुणांश्च दोषांश्च युथावदवगच्छसि ? 1 स्थलमपि परेण गन्तुमशक्यत्वात् दुर्गम् । अयं तु उष्णकालमपेक्ष्य दुर्गो भवति । इतरदुर्गत्रयं सर्वप्रसिद्धम् । चतुर्वर्गस्तु 'साम दानं च भेदश्च दण्डश्चेति चतुर्गुण: * । सप्तवर्गस्तु 'खाम्यमात्याश्च राष्ट्रं च दुर्गकोशौ बलं सुहृत् । परस्परोपकारीदें राज्यं सप्ताङ्गमुच्यते ’े । अष्टवर्गस्तु – 'पैशुन्यं साहस द्रोहं ईर्ष्याऽसूयाऽर्थदूषणम् । वाग्दण्डयोश्च पारुप्यं क्रोषजोऽपि गुणोऽष्टकः' § वाक्पारुष्यं परुषदण्डत्वं च द्वयम् । त्रिवर्गस्तु – 'त्रिवर्गो धर्मकामार्यैः' इति । तथा उत्साहप्रभुमन्त्रशक्तित्रयोऽपि त्रिवर्गः || | त्रिविद्यास्तु त्रयीवार्ता- दण्डनीतयः ॥ त्रयी-वेदाः, वार्ता – कृष्यादित्रयम्, दण्डनीतिः- । नीतिशास्त्रम् ॥ ६८ ॥ 351

यद्वा चतुर्विधमित्राणि वा । यथाऽह कामन्दक: 'औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मेत्रं ज्ञेयं चतुर्विधम्' इति । यद्वा धनानां न्यायार्जनादिधर्मचतुष्टयं वा । तदपि तत्रैवोक्तम् 'न्यायेनार्जनमर्थस्य रक्षणं वर्धनं तथा । सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम्' इति गो. यद्वा स्वपक्षस्थजना- वान्तर भेदसप्तकं वा । यथाऽह 'निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुजः कार्यसमुद्भवश्च । भृत्यो गृहीतो विविधपचारैः पक्षं बुधाः सप्तविधं वदन्ति' इति । यद्वा प्रधानव्यूहाः सप्त वा सप्तवर्गः । यथ। 'श्येनः सूची च वज्रश्च शकटो मकरस्तथा । दण्ड ख्य: पद्मनामा च व्यूहाः सप्त प्रधानतः' इति-गो. ईर्ष्या - असहना असूया-गुणेष्वपि दोषारोपः । § अष्टवर्गमाह कामन्दक: ‘कृषिवाणिज्यदुर्गाणि सेतुः कुञ्जरबन्धनम् । खन्याकरकरादान शून्यानां च निवेशनम् अष्टवर्गमिमं साधु स्वस्थवृत्तो न लोपयेत् ' 6 इति - गो. || यद्वा परेनं क्षयस्थानवृद्धयः 'क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ' इत्यमरः । यद्व। अशक्यसमुचनादिकार्यव्यसनत्रयम् । यथाऽह कामन्दकः ब्वशक्येषु समुद्यमश्च शक्येषु मोहाइसमुद्यमश्च वस्तु- शक्येष्वकालेषु समुधमश्च विधैव कार्य व्यसनं वदन्ति' इति - गो. 'आन्त्रीक्षकी त्रयी बातों दण्डनीतिश्च ' इति विद्याश्चतुर्विधत्वेऽपि आन्वीक्षक्यास्खय्यामन्तर्भावः । यथाऽह कामन्दकः - त्रयी वार्ता दण्डनीतिरिति विद्या हि मानवा: । त्रय्या एव विशेषोऽयमियमान्वीक्षकी मता' इति-गो..