पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० सर्गः]] कञ्चित्सवेंऽनुरक्तास्त्वां कश्चित् प्राशांश्च सेबसे ? 339 'कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः + प्रधानतः । कच्चित् प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः ॥ ३४ ॥ कुलपुत्राः-- कुलदासाः । प्रधानतः- प्राधान्येन - अन्तरङ्गतया ॥ कच्चिजानपदो विद्वान् दक्षिणः प्रतिभानवान् । S यथोक्तवादी दूतस्ते कृतः, भरत ! पण्डितः ॥ ३५ ।। HIP जानपदः-स्वजनपदे भवः । विद्वान् - सर्वशास्त्रवित् । प्रति- मानवान् - प्रत्युत्पन्नमतिः । यथोक्तवादी-यथोक्तसन्देश प्रतिसन्देश- वादी । पण्डितः-परिच्छेचा । 'दूतं चैव प्रकुर्वीत सर्वशास्त्र- विशारदम् । इङ्गिताकारचेष्टाज्ञं शुचिं दक्षं कुलोद्भवम् || ' इति मनुः ॥ ३५ ॥ || कच्चिदष्टा दशाख्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैः वेत्सि तीर्थानि 'चारकैः ।। ३६ ।। प्रधानतः---

  • राशः अङ्गरक्षका: वंशपरंपरयाऽऽगताः त्वां अनुरक्ताः कच्चित् ।

तादृशा: ते त्वदर्थ प्राणानपि त्यक्तुं समाहिता वर्तन्ते कच्चिदिति भावः । अङ्गरक्षकाणामयं धर्मः सुप्रसिद्धः । + कुल · त्रा: – शतयः - ति. क्षत्रियकुलम सूताः, ज्ञातय इति वा- गो. प्रधाना: सार्वविभक्तिकः तसिः - गो. § उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदन- शील: ; कार्योपयोगिता बहुमुख व्याहरन्नपि स्वाम्युक्तमजहदेव व्यवहतेंति यावत्- गो. || अन्येषु परपक्षेषु अष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च । स्वकीयमन्त्रि- पुरोहतयुवराजा न परीक्ष्याः, तेषां सदा स्वसमीपवर्तित्वेन तत्स्वभावस्य स्वेनैव शातत्वात् । तथोक्तं नीतिशास्त्र–चारान् विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाषण्डादीनविज्ञाता- नन्योन्यमित रैरपि । मन्त्रिणं युवराजं च हित्वा स्त्रेषु पुरोहितम्' इति । एषां तीर्थशब्द- वायत्वमुक्त हलायुधे 'योनौ जलावतारे च मन्त्राद्यशदशस्वपि पुण्यक्षेत्रे तथा पात्रे तीर्थ स्याइशनेष्वपि इति-गो. अधिकं तत्रैव द्रष्टव्यम् ॥ । दशान्येषु-ड. 2 चाणैः-ङ. 23**