पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

330 समाहित इति । 1 इत्यर्थः || ३ || कुशलप्रश्न: [अयोध्याकाण्ड: कुशलप्रश्नद्वारा घर्मबोधनसावधानचित SER क्व नु तेऽभूत् पिता, तात! यदरण्यं त्वमागतः । || १ न हि त्वं जवितस्तस्य वनमागन्तुमर्हसि * ॥ ४ ॥ हे तात ! ते पिता काभूत् ? इह वा परत्र वेत्यर्थः । कुत एवं संशयप्रसङ्ग इत्यतः – न हि त्वमित्यादि । जीवतस्तस्येति । सेवां हित्वेति शेषः । नार्हसीति । पितृशुश्रूषाया नित्यकर्तव्यत्वात् मदस- न्निधानसमये त्वयेत्याशयः ॥ ४ ॥ SEIFE + चिरस्य बत पश्यामि दूरात् भरतमागतम् ।

  1. दुष्प्रतीकमरण्येऽस्मिन् किं, तात ! वनमागतः ॥ ५ ॥

दूरात् -- मातुलदेशात् चिरस्यागतं भरतं पश्यामि बत ! इति सन्तोषवचनं सामान्यतः, न भरतं प्रति । दुष्प्रतीकं-- दुर्दशाकारणम् । भरतस्य वेदं विशेषणम्, वनस्य वा । हे तात ! दुष्प्रतीकं वनं किमागतः ? अस्मिन्नरण्ये तव किं प्रयोजनम् ? ॥ ५ ॥ जनम् ॥ ५ ॥ issi Tepe - कच्चिद्वारयते, तात ! राजा यत् त्वमिहागतः । कच्चिन्नु दीनः सहसा राजा लोकान्तरं गतः ॥ ६ ॥

'रामस्य प्रश्नान्तरसम्बन्धदर्शनेन भरतो नोत्तरमुक्तवानिति बोध्यम्- गो. + बतेत्यद्भुते। दूरात् दूराव स्थितकेकयनगरात् । दुष्प्रतीकं – वैवर्ण्यादिना दुर्ज्ञेयाव- यवम्-गो. दुष्प्रतीकमिति भरतविशेषणं, वनविशेषणं वा । आद्ये कार्यवेवर्ष्यादिना दुर्शेयाकारं, वनमपि भीषणतया । अरण्यं गजाधुपभोग्यं तद्वतिं वनं आम्र दियुतं मनुष्यभोग्यम्-ति. दूरात् चिरस्यागतं भरतं अरण्यऽस्मिन् दुष्प्रतीकं पश्यामि । यद्वा चिरस्य दूरादागतं दुष्प्रतीकं भरतं अरण्ये पश्यामि तब । अरण्येऽस्मिन् आगतमिति वा ॥ कच्चिन्न-ङ. च.