पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ सर्गः] आतरं त्वरमा यान्तं शत्रुघ्नोऽप्यन्वपद्यत तं दृष्ट्वेति । कुलचिह्नकोविदारध्वजं दृष्ट्वेत्यर्थः । अंहसः - पापस्य, अपराघस्य मातृकृतस्य चेत्यर्थः ॥ १७ ॥ स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम् । गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ।। १८ ।। इत्यायें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टनवतितमः सर्गः 317 पुण्याश्च ते जनाः, तपखिन इति यावत् । पुनश्च चमूं निवेश्येति । अन्वेषण नियोजितनिषादचमूमित्यर्थः । जय (१८) मानः सर्गः ॥ १८ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टनवतितमः सर्गः एकोनशततमः सर्गः [रामसंगमः] निविष्टायां तु सेनायां उत्सुको भरतस्तदा । जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १ ॥ अथ भरतस्य रामदर्शनम् । निविष्टायामित्यादि । शत्रुघ्न- मनुदर्शयनिति । 'अनुलक्षणे' इति अनुः कर्मप्रवचनीयः; शत्रुघ्नस्य रामाश्रमप्रत्यासत्तिचिह्नानि दर्शयन्नित्यर्थः ॥ १ ॥ ऋषि वासष्टं संदिश्य मातृमें शीघ्रमानय । 'इति त्वरितम ग्रे सः जगाम 'गुरुवत्सलः ॥ २ ॥

  • अनेन 'रामावास निश्चित्य पश्चादानेष्यामि' इति धिया महासेनानिवेशे

मातृर्निवेशितबानिति गम्यते - गो. 1 आसृवत्सलः-ड.. 13/01