पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतो राममन्वेष्टुं वने वीरानथादिशत पार्थिवव्यञ्जनं रेखाध्वजकुलिशातपत्रादि || ८ || 2. यावन्न राज्यं राज्याई: * पितृपैतामहे स्थितः । ' अभिषेकजलक्किन्नः न मे शान्तिर्भविष्यति ॥ ९ ॥ 2 सिद्धार्थः खलु सौमित्रिः यश्चन्द्रविमलोपमम् । मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।। १० ।। चन्द्रविमलोपमं – विशेष्यपूर्वनिपात आर्षः, विमलचन्द्रोपम- मिति यावत् ॥ १० ॥ ९८ सर्ग:] 8 कृतकृत्या महाभागा वैदेही जनकात्मजा । भर्तारं सागरान्तायाः पृथिव्याः याऽनुगच्छति ॥ ११ ॥

  • सुभगचित्रकूटोऽसौ गिरिराजोपमो गिरिः ।

यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ १२ ॥ गिरिराजः - हिमवान् ॥ १२ ॥ कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् । यदध्यास्ते 'महातेजाः रामः शस्त्रभृतां वरः ॥ १३ ॥ व्यालः-सर्पः । कृतकार्य-कृतार्थम् । दुर्ग - दुष्प्रवेशम् । - यत् - यस्मात् ॥ १३ ॥ एवमुक्ता महातेजाः भरतः पुरुषर्षभः । प्रविवेश पद्भयामेव महाबाहुः 1 अभिषिको-च. 3 315

  • पितृपैतामहे मार्गे स्थितः, अत एव राज्याहंः, अतश्च अभिषेकजलकिन्न: यावश

राज्यं, लभत इति शेषः । पूर्व दृश्यते । महद्वनम् ॥ १४ ॥ सुशुभ च. 2 अयं श्लोकः च पुस्तके ' यावत्र चरणौ' इति लोकात्

  • महाराज:-च..