पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

296 काकासुरवृत्तान्त एषा कुसुमिता नूनं पुष्पभारानता लता । दृश्यते मामिवात्यर्थ श्रमाद, देवि त्वमाश्रिता ॥ १५ ॥ एवमुक्ता प्रियस्याङ्के मैथिली प्रियभाषिणी । भूयस्तरां त्वनिन्याङ्गी समारोहत भामिनी ॥ १६ ॥ अङ्केतु परिवर्तन्ती सीता सुरसुतोपमा । हर्षयामास रामस्य मनो मनसिजार्पितम् ॥ १७ ॥ स निष्याङ्गुलि राम: भौते मनश्शिलोच्चये । चकार तिलकं तस्या: ललाटे रुचिरं तदा ॥ १८ ॥ बालार्कसमवर्णन तेजसा गिरिभातुना PAPIRE [अयोध्याकाण्ड: चकासे विनिविष्टेन ससन्ध्येव निशा सिता ॥ १९ ॥ केसरस्य च पुष्पाणि करेणामृय राघवः । अलकं पूरयामास मैथिस्याः प्रीतमानसः ॥ २० ॥ अभिरम्य तदा तस्यां शिलायां रघुनन्दनः । अन्वीयमानो वैदेया देशमन्यं जगाम ह ।। २१ ॥ विचरन्ती तदा सीता ददर्श हरियूथपम् । वने बहुमृगाकीर्णे विवस्ता राममाश्लिषत् ॥ २२ ॥ रामस्तां परिरब्धाङ्गी परिरभ्य महाभुजः । सान्त्वयामास वामोरूं अवभत्स्योग वानरम् ॥ २३ ॥ मनश्शिलायास्तिलक: सीतायाः सोऽथ वक्षसि । समदृश्यत संक्रान्तः रामस्य विपुलौजसः ॥ २४ ॥ प्रजदास तदा सीता गते वानरपुङ्गवे । दृष्ट्वा भर्तरि संक्रान्तं अपाङ्गं समनश्शिलम् ॥ २५ ।। नातिदूरे त्वशोकानां प्रदीप्तमिव काननम् । ददर्श पुष्पस्तबकैः तर्जद्भिरिव वानरैः ॥ २६ ॥ वैदेही स्वनवीय रामं अशोककुसुमार्थिनी । वयं तदभिगच्छामः वनं, इक्ष्वाकुनन्दन ! ॥ २७ ॥ तस्याः प्रिये स्थितो राम: देव्या दिव्यार्थरूपया । सहितस्तदशोकानां विशोकः प्रययौ वनम् ॥ २८ ॥ तदशोकवनं रामः सभायों व्यचरत्तदा । गिरिपुत्र्या पिनाकीव सह हैमवसं बनम् ॥ २९ ॥