पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

291 मन्दाकिती सौन्दर्यम्अयोध्या काण्ड:

  • इमां हि रम्यां 'मृगयूथशालिनीं

निपीततोयां गजसिंहवानरैः । सुपुष्पितैः पुष्पवनैरलङ्कृतां न सोऽस्ति यः स्यादगतकृमः सुखी ॥ १८ ॥ पुष्पवनैरलङ्कृतामिमां अवगाह्य यो गतक्लमः सुखी च न स्थात्, स नास्तीति योजनीयम् ।। १८ ॥ इतीव रामो बहु | सङ्गतं वचः SEIF PEOP प्रियासहायः सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभ स चित्रकूटं रघुवंशवर्धनः ॥ १९ ॥ इत्यापें श्रीमद्रामायणे वास्नीकीये अयोध्याकाण्डे पचनवतितमः सर्ग: बहु ब्रुवन्नित्युक्ते असङ्गताव्यावृत्त्या – सङ्गतमिति । नयनयो- रंजनं नयनाञ्जनं, तद्वन्नीलप्रममित्यर्थः । चित्रकूटं चचार — चित्रकूटे विहृतवानित्यर्थः । घन्य (१९) मानः सर्गः ।। १९ ।। ॥ इति श्रीमद्रामायणा मृतकतकटीकायां अयोध्याकाण्डे पचनवतितमः सर्गः

  • अत्र 'उपस्पृशन्' इत्यनुषज्यते-गो. + संगत- प्रसक्तानुप्रसक्तं- गो.

मृगयूथलोलितां ङ. गजयूथलोडितां-च. 12 सुपुष्पितां पुष्पफलै-ङ. सूपुष्पितां पुष्पभरै-च.