पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकूटस्य सौन्दर्य मनो मे हरति, प्रिये ! मृगयूथ निपीतानि कलुषाम्भांसि सांप्रतम् । तीर्थानि रमणीयानि * रतिं सञ्जनयन्ति मे ॥ ५ ॥

  • 1

९५ सर्गः ] मृगयूथनिपीतानि, अत एव सांप्रतं कलुषाम्भांसि । तीर्थ-- जलावतारः ।। ५।। 291 जटाजिनधराः काले वल्कलोत्तरवाससः । ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं, प्रिये ! ॥ ६ ॥ आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः । एतेऽपरे, विशालाक्षि ! मुनयः संशितव्रताः ॥ ७ ॥ उपतिष्ठन्त इति । • उपान्मन्त्रकरणे' इत्यात्मनेपदम नियमात् हेतोः संशितव्रताः अपरे एते मुनयः प्रकाशन्ते, जपपरा इति शेषः ॥ ७ ॥ मारुतोद्धृतशिखरैः प्रवृत्त इव पर्वतः । पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ ८ ॥ प्रनृत्तः–आदिकर्मणि क्तः, नृत्तं कर्तुमुपक्रान्त इवेत्यर्थः ।। क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित् सिद्धजनाकीर्णा पश्य मन्दाकिनी नदीम् ॥ ९ ॥ मणिः- मुक्तादिः । + उदभाव आषः ।। ९ ॥

  • रतिं-अवगाहनविषयां प्रीतिम्- गो. + मारुतैः उद्धतानि शिखराणि-अग्राणि

येषां ते, तादृश: पादपैः । " मणिनिकाशोदा मित्यत्र उदकशब्दस्य इति शेष: । । मैथिलि प्रतिभान्ति मे-ड.. 19*