पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ सर्ग:] 18 H चित्रकूट मिमं पश्य, सीते! बहुफलोदकम् यदीह शरदोऽनेकाः त्वया सार्धं, अनिन्दिते ! लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ।। १५ ।। शरदः -- संवत्सराः ।। १५ ।।

1 बहुपुष्पफले रम्ये नाना द्विजगणायुते । विचित्रशिखरे ह्यस्मिन् रतवानस्मि, भामिनि ! ॥ १६ ॥ अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ १७ ॥ धर्मे - सत्यपरिपालनलक्षणे ॥ १७ ॥ -- वैदेहि ! रमसे कच्चित् ? चित्रकूटे मया सह । पश्यन्ती विविधान् * भावान् मनोवाकाय संयता || मन आदयः संयताः यस्याः सा तथा ॥ १८ ॥ + इदमेवामृतं प्राहुः, राज्ञि ! राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ १९ ॥ भवार्थायेति । संसारक्लेशनिवृत्त्यर्थमित्यर्थः ॥ १९ ॥ भावान् विभावान् । यद्वा मावा:- किन्नरमृगादीनां चेष्टा:- गो. रमणस्य केवलैन्द्रियिकत्वव्यावृत्तये- मनोवाकायसंयतेति । बनवास - वनवासरूपं इदं अमृतं- अमृतवद्धोग्यं वस्तु, मे प्रपितामहाः- मस्पितृवंश्याः परे-पूर्वे राजर्षयः प्रेत्य-प्रारब्धशरीर- वियोगं प्राप्य भवार्थाय – संसारविनाशायेत्यर्थः, 'तमसे दीप:', 'मशकाओं धूप: इत्यादिवनिर्देश:, प्राहुः -प्रोचुः । यद्वा - इदमिति लिङ्गव्यत्यय आर्षः । इमं वनवासं- वानप्रस्थोचितनियमसहितं बनवासं अमृतं-मोक्षसाधनं प्राहु: - गो. वनवासं प्रेत्य एतच्छरीरत्यागोत्तरं भवार्थाय-भवः शिवः - हिरण्यगर्भः, तलोकप्राप्तिरूपायार्थीय-प्रयोजना- येत्येके-ति. हे राज्ञि ! भवार्थाय-लोककल्याणाय, प्रवृत्ता इति शेषः, परे उत्कृष्टा: राजर्षय: मे प्रपितामहाः- मनुप्रभृतयः प्रेत्य- विचार्य इदं सनियमं वनवासं अमृतं प्राहुः । सर्वनाम्नां उद्देश्यविधेयान्यतरलिङ्गतेति नियमात् क्वीनता-रा. भवः-संसारः, तस्य अर्थाय-- निवृत्तये, 'अथोंऽभिधेयरवस्तुप्रयोजननिवृत्तिषु' इत्यप्यन्ये ॥ 287 सम्मतान्च.