पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः प्रभाते भरत: भरद्वाजमुपागमत् सुखोषितोऽस्मि, भगवन् ! समग्रवलवाहनः । 'तर्पितः सर्वकामैच सामात्यो बलवत् त्वया ॥ ५॥ 1 बलवत् --अत्यन्तम् ॥ ५ ॥ १२ सर्गः] 3 अपेतक्लमसन्तापाः " सुभिक्षा: सुप्रतिश्रयाः । अपि प्रेष्यानुपादाय सर्वे स्म * सुसुखोषिताः ॥ ६ ॥ क्लमः - ग्लानिः । सन्तापः- -देहौष्ण्यम् । प्रेष्यानपि उपादाय- सुभिक्षा:- समृद्धान्नपानाः | सुप्रतिश्रयाः-शोमना- आरभ्य । वासस्थाः ॥ ६ ॥

आमन्त्रयेऽहं, भगवन् ! कामं त्वां, ऋषिसत्तम ! समीपं प्रस्थितं भ्रातुः * मैत्रेणेक्षस्व चक्षुषा ॥ ७ ॥ आमन्त्रये - आपृच्छे । कामं - अभ्यधिकम् | मैत्रेण चक्षुषेति । स्निग्धचक्षुषेत्यर्थः ॥ ७ ॥ 269 + आश्रमं तस्य, धर्मज्ञ ! धार्मिकस्य महात्मनः । आचक्ष्व 'कतमो मार्गः कियानिति च शंस मे ॥ ८ ॥ तस्येति । रामस्येत्यर्थः । कियान्-कियद्दूरपरिमाणः ॥ ८ ॥

  • पूर्व 'कञ्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना: राज्यं

तस्यानुजस्य च ' (90-13) इति भरद्वाजोच्या वा प्रार्थयति- मैत्रेणेत्यादि । + रामाश्रमप्रदेशाभिशेषु गुहशातिषु विद्यमानेषु मुनिं प्रति प्रश्नः तस्य पूजार्थम्-गो. अथवा – 'भरद्वाजाभिगमनं प्रयागे च सभाजनम् । आगिरेर्गमनं' (57-2) इत्यनेन भरद्वाजाभिगमनादेव र रामस्य चित्रकूटप्रस्थानस्य सुमन्त्रेणावगमात् स विषयः भरद्वाजेनैव सम्पज्ज्ञात: स्यात, मुनिकस्सस्य रामस्य वृत्तान्तादिकं हि मुनय एव सम्यग्जानी यु- रिति बुद्धया भरद्वाजं प्रति प्रश्नः स्यात् । सुसुखो- 1 बलवत्तर्पितश्चाहं बलवान् भगवस्त्वया - ङ.. कतरो-ङ. चिताः-ङ. 2 सुभक्षा:-ड..