पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्ग:] भारद्वाजाश्रमे तेषां एवं रात्रिर्गता क्षणात् ' इत्येवं रममाणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तते ॥ ८१ ॥

प्रतिजग्मुश्च ता नद्यः गन्धर्वाश्च यथाऽऽगतम् । 'भरद्वाजमनुप्राप्य ताश्च सर्वा वराङ्गनाः || ८२ ||

तथैव मत्ता मदिरोत्कटा नराः तथैव दिव्यागरुचन्दनोक्षिताः । तथैव दिव्याः विविधाः स्रगुत्तमाः + 'पृथक् ' प्रकीर्णा मनुजैः प्रमर्दिताः ॥ ८३ || इत्यायें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकनवतितमः सर्गः अथ स्वप्नादिवत् ऋषिकृतमातिथ्यं किं मिथ्या ? इति शङ्कां व्यावर्तयितुमाह- - तथैव मत्ता इत्यादि । मत्ताः – हप्ताः । मदिरया उत्कटा:- मदिरोत्कटाः । 'मत्त शौण्डोत्कटक्षीबा: ' । तथैवेति । यथा सार्वभौमाश्वमेघयागतृप्तजनस्य भुक्तवस्तु परिपाकपर्यन्तं सत्यं, तथैवात्रापि सत्य एव भोगोऽभूदित्यर्थः । स्रगुत्तमा:- स्रुक्षूतमाः प्रकीर्णाः प्रमर्दिताश्च, उपभोगवशादिति शेषः । गज (८३) मानः सर्गः ॥ ८३ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकनवतितमः सर्गः 267 - भरद्वाजात अनुमति प्राप्येत्यर्थः । + पृथक्-पूर्वस्रग्भ्यो विलक्षणा:-गो. इत्येषां ङ. 2 विकीर्ण-ङ.