पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ सर्ग:] तर्पिताः सर्वकामैस्ते स्वर्गोऽयमिति चाब्रुवन् तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः । अप्सरोगणसंयुक्ताः सैन्या वाचमुदीरयन् ॥ ५८ ।। सैन्याः सेनायां समवेताः । वाचं — क्रीडावाचं उदीरयन् - उदैश्यन्निति यावत् । ताभिरप्सरोभिस्सहेति शेषः ।। ५८ ।। नैवायोध्यां गमिष्यामः न गमिष्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ ५९ ॥ कां वाचमुदीरयन्नित्यतः - नैवेत्यादि । न गमिष्यामेति । - छान्दसः सकारलोपः । भरतस्य कुशलमस्तु, भूमौ स्वर्गसुखप्रदत्वा- दिल्याशयः ॥ ५९ ॥ 261 -ग इति पादातियोधाश्च हस्त्यश्वारोहबन्धकाः ।

  • अनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन् ।। ६० ।।

पादाभ्यां अदन्ति — गच्छन्ति इति पादातयः; ते चैते योधास्तथा । चकारतोऽधिकसमुच्चयः । हस्त्यश्वानामारोहाः – सादिनः, हस्त्यादिबन्धकाः तद्भुत्याश्च तथा । तं विधि-तं सत्कारं लब्ध्वा अनाथा: अपरतन्त्रा इव - इत्येतां वाचमुदीरयन्निति सम्बन्धः ॥६० ॥ - संग्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः । भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् ॥ ६१ ॥ विनाद:- -शूराणां प्रहृष्टानां शब्दविशेषः ॥ ६१ ।। - नृत्यन्ति म हसन्ति स्म गायन्ति स्म च सैनिकाः । समन्तात परिधावन्ति माल्योपेताः सहस्रशः ।। ६२ ।।

  • पदात्यादयः खलु ताः । अतः - एतावता कालेन एतादृशातिथ्यापनुभवगति-

रहिता - इत्येवंरं त्या लोकोक्तिर्वा अनाथा इति। तेन चातिथ्यप्रशंसनम् + माझ्यो- पेता:-माक्याचलङ्कृता इति यावत् ।