पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

258 [ अयोध्याकाण्ड:

भरद्वाजातिथ्यम् 1 याभिगृहीतः पुरुषः सोन्माद इव लक्ष्यते । आगुर्विंशतिसाहस्रा: नन्दनादप्सरोगणाः ॥ ४५ ॥ सोन्माद इति । 'गन्धर्वाप्सरसो वा एतमुन्मादयन्ति, य उन्माद्यति' इति श्रुत्येति शेषः । उद्भूतो मादः-सन्तोषः-उन्मादः, मुदहर्षे, भावे घञ्, उद्भूतसन्तोषसहिता इत्यर्थः ॥ ४५ ॥ नारदस्तुम्बुरुर्गोपः प्रभया सूर्यवर्चसः । एते गन्धर्वराजानः भरतस्याग्रतो जगुः ॥ ४६ ।। नारदादयो गन्धर्वराजानः । प्रभया सूर्यवर्चसः-

-तस्य

समानतेजस्काः ॥ ४६॥ VL अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना । उपानृत्यंस्तु' भरतं + भरद्वाजस्य शासनात् ॥ ४७ ॥ यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ ४८ ॥ प्रयागे — क्षेत्रे ॥ ४८ ॥ - 4 बिल्वा मार्दङ्गिका आसन् + शम्याग्राहा विभीतकाः । अश्वत्था नर्तकाश्चासन् भरद्वाजस्य शासनात् ।। ४९ ।। बिल्वाः- बिल्ववृक्षाः । मार्दङ्गिकाः–मृदङ्गवादनशिल्पमस्य, 'तदस्य शिल्पम्' इति ठक्, ‘मार्दङ्गिका मौरजिकाः -

  • गृहीतः -आलिङ्गितः । एतदर्घस्य पूर्वेणान्वयः- गो. दर्शनादिनाऽऽत्मवशी-

कृत:- ति. + भरद्वाजस्य शासनादुपानृत्यन्नित्यनेन, भरतस्य रामे वृत्तिविशेषं आतिथ्य- व्याजेन परीक्षितवानृपिरिति गम्यते । एवं भरतस्थ रामशेषतयैवावस्थानं, न तु भोगलौल्येने- ….युक्त। सेनाभोगं प्रपञ्चयति—यानीत्यादिना - गो. शम्याग्राहा: - तालग्राहका:- गो. 3 तास्सर्वा :- ङ. • तेजसा च. ! चोयते-ङ. 2 गोंप्ताङ.