पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गसन्तरणम् MERO [ अयोध्याकाण्ड: आवासं-उषितावासं आदपियतां - अग्निसात्कुर्वताम्, अयं राजधर्मः । तीर्थः - नद्यवतारः । तदवगाहतां - अहमहमिकया प्रवि- शताम् । भाण्डानि- सर्वोपकरणानि ॥ १५ ॥ -

238 ॥ 'पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः । वहन्त्यो जनमारूढं तदा संपेतुरानुगाः ॥ १६ ॥ आशु गच्छन्तीत्याशुगाः ॥ १६ ॥ नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। १७ ।। नारीणामभिपूर्णा इति । रसस्य पूर्णा इत्यादौ सर्वप्रसिद्धा यानानि - रथशकटादीनि, युग्यानि- ' अश्वाश्वतरबली वर्दादीनि, महाघनं - जीवाजीवरूपनानाप्रकारम् ॥ १७ ॥ पूर्णायोगे तृतीयार्थे षष्ठी ताः स्म गत्वा परं तीरं अवरोग्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते # दाशबन्धुभिः ॥ १८ ॥ घनमवरोप्य निवृत्ताः ता नावः समारुह्य दाशबन्धुभिः क्रीडार्थ काण्ड/चित्राणि, ‘ काण्डोऽस्त्री दण्डबाणार्वगर्वावसरवारिषु', जलेषु चित्र गमनानि लघुत्वात् क्रियन्ते स्मेत्यर्थः ॥ १८ ॥

  • पताकिन्य: - वाय्वाकर्षणाय कृतपताका: स्वयं संपेतुः- आशुगत्वेन दाशाधिष्ठान-

मात्रेणानायासेन जग्मुरित्यर्थ:- गो. + महाधनं बहुमूल्यं - ' बहुमूल्यं महाधनम् ' इत्यमरः - गो. + दाशबन्धुभिः दाशः भासै:, दाशस्व-गुहस्य बन्धुमिरिति वा । भाराभावकृतल'घवातिशयेन निवर्तनकालिकदाशलीलोच्यते-गो. दाश श्रेष्ठै:-ती.) दाशाश्च ते बन्धवश्च - दाशबन्धवः इति वा । ( दाशबन्धुभि:-- - प्रीत्यति शयात्तथोक्तिः ॥ स्वस्य-ड..