पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

230 रामशय्यादिवीक्षणम् [अयोध्याकाण्ड: अथ वास्तवीमुपपत्ति परामृशति-न नूनमित्यादि । बलवत्तरं- स्वातन्त्र्यादर्थप्रापकं दैवमिति किञ्चिद्वस्तु नास्तीति नूनं-निश्चितम् ; यत्र - यस्मात् स रामोऽपि कालेन बलीयसा भूमावेव शयीत । अतो दैवस्यादृष्टपर्यायस्यापि कालस्यैव प्रवर्तकत्वात् काल एव प्रारब्धमुप- स्थाप्य - भूशयनादिदुःखं प्रापयतीत्यर्थः ।। ११ ।।

  • विदेहराजस्य सुता सीता च प्रियदर्शना ।

दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ १२ ॥ इयं शय्या मम भ्रातुः इदं हि परिवर्तितम् । स्थण्डिले कठिने सर्वं ' गात्रैर्विमृदितं तृणम् ॥ १३ ॥ 2 3 मन्ये साभरणा सुप्ता सीताऽस्मिन् ' शयनोत्तमे । तत्र तत्र हि दृश्यन्ते ' सक्ताः कनकबिन्दवः ॥ १४ ॥ कनकबिन्दवः - भूषणावयवकनकशकलानि (?) ।। १४ ।। EPPENE उत्तरीय मिहासक्तं सुव्यक्तं सीतया तदा । तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ १५ ॥ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुःखं न विजानाति मैथिली ॥ १६ ।। भर्तुः शय्या यादृशी तादृश्यपि सुखा-सुखसाधनभूतेति मन्ये । स्त्रीणामिति शेषः । कुत इत्यतः - सुकुमारीत्यादि । १६ ।। 4 4 शयिता-शयितवती, हन्तेति शेष:- गो. यद्वा - क रूप्राबल्य एव निदर्शनान्तरं - विदेहराजस्य सुतेत्यादि। ‘सीता च भूमौ शयिता, अतः -न नूनं दैवतं किञ्चिदित्यन्वयः। + कनकाभरणसं मर्दाधीनतच्छायापत्तिकृतो वाऽयं निर्देशः स्यात् । ' गात्रं विमृदितं तृणैः-ङ.. 2 शयने शुभे, शयने शुभा- ङ. कनकतन्तवः-ड.. 3 सिक्ताः- ङ.