पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ सर्ग: ]] सुमधावेदितः तस्मै भरत: खागतं व्यभाव - भर्ता चैव सखा चैव रामो दाशरथिर्मम । 15 005 तस्यार्थकामाः सन्नद्धाः * गङ्गाऽनूपे प्रतिष्ठत ॥ ६ ॥ भवतु ! तावता का भीतिरस्माकम् इत्यत्राह — भर्तेत्यादि, तथा च तत्पक्ष्यत्वात् अस्माकमुक्तप्रसङ्ग इत्युक्तं भवति । अस्मा- भिस्तु सख्यू रामस्येष्टं कर्तव्यं, अतः नास्माभिरियं सेना तारयितव्या । अतो यूयं तस्य अर्थकामाः - तस्य रामस्य प्रयोजनाभीप्सवन्तः सन्नद्धाः अत्र गङ्गानूपे अस्मत्समीपे परिबृढास्तिष्ठत ।। ६ ।। तिष्ठन्तु सर्वे दाशाश्र गङ्गामन्वाश्रिता नदीम् । जालयुक्ता नदीरक्षाः मांसमूलफलाशनाः ॥ ७ ॥ नावां शतानां पञ्चानां कैवर्तानां शतं शतम् । सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ ८ ॥ सर्वे च मामका दाशास्तु गङ्गानदीमेवान्वाश्रिता जालयुक्ता यावदेतन्निर्गमनं एतद्भीत्या तीरस्य दुरागेहतः नावारोपितमांसमूल- फलाशनास्सन्तः नदीरक्षा:- नदीसन्तारमार्ग विघ्नन्तः सन्तः पञ्चशती- नौकानामेकैकं – कैवर्तानां यूनां युद्धार्हाणां सन्नद्धानां शतं शत- मारुह्य तिष्ठन्त्वित्यभ्यचोदयत् ॥ ७-८ ॥ 2 यदि तुष्टस्तु भरतः रामस्येह भविष्यति । इयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ ९ ॥ एवं सन्नद्धतयाऽवस्थाने सति पश्चादागतस्याभिप्रायानुरोधेन कार्यं कर्म कुर्मः इत्याह – यदीत्यादि । यदि तुष्टो रामविषये,

  • गङ्गानूपे–गङ्गातीरे-गो.

1 गङ्गाकूलेऽत्र तिष्ठत-ड. RAMAYANA-VOL. III 2 209 यदाऽदुष्टस्तु-ड 14