पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६ सर्गः]
165
भरतः प्रेतकृत्यानि ततश्चक्रे यथाविधि


 ऋत्विजः--यज्ञकर्माणि वृताः । पुरोहितः - सर्वहितप्रवर्तकः, तथा ह्याहुः -' त्रय्यां च धर्मकृत्ये च शान्तिकर्मणि पौष्टिके। अध्वरे यश्च कुशलः स स्यात् राजपुरोहितः' इति । उपनीय वेदाध्यापका आचार्याः, 'उपनीय वदेद्वेदमाचार्यः स उदाहृतः’ ॥ १० ॥

ये त्वग्नयो नरेन्द्रस्य चाग्न्यगारात् बहिष्कृताः।
ऋत्विग्भिर्याजकैश्चैव [१] ते हियन्त यथाविधि ॥ ११ ॥

 अग्न्यगारात् बहिष्कृता इति । अन्तश्शावत्वात् बहिःप्रदेशे प्रतिष्ठापिताः सन्तः ये, याजकैः- उपदेष्टृभिः ऋत्विभिश्च यथाविधि ह्रियन्ते स्म ॥ ११ ॥

शिबिकायामथारोप्य राजानं गतचेतनम् ।
बाष्पकण्ठा विमनसः तमूहुः परिचारकाः ॥ १२॥
हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥ १३ ॥

 हिरण्यं-रजतं, तत्कृतपुष्पमिति यावत् । तथा सुवर्णमित्यपि ॥

चन्दनागरुनिर्यामान् [२] सरलं पद्मकं तथा
देवदारूणि चाहृत्य [३][४] क्षेपयन्ति तथा परे ॥ १४ ॥

 निर्यास:- गुग्गुल्यादि, तज्जधूम इति यावत् । धूमः-देव- दारुभेदः, चन्दनादिवत् धूपाङ्गः । पद्मकमपि धूपाङ्गं काष्ठविशेषः । देवदारुः - प्रसिद्धः । क्षेपयन्तीति । धूपार्थमग्नाविति शेषः ॥ १४ ॥


  1. तेऽहूयन्त - ङ. झ.
  2. सरलं -धूपसरलं-गो. अत्र व्याख्यादृष्टया 'धूमं पद्मकमेव च ' इत्येवंरीला
    पाठ: स्यादिति भाति ।
  3. चन्दानादीनि गन्धान्तानि चिताकाष्ठद्रव्याणीस्येव तु युक्तम् ।
    तदा क्षेपयन्ति-दहनार्थे चितामकुर्वन्नित्यर्थः - गो.
  4. चितां चक्रुस्तथा परे--ङ. झ.