एतत् पृष्ठम् परिष्कृतम् अस्ति
७६ सर्गः]
163
आदिशत् प्रेतकार्याय वसिष्ठो भरतं ततः
षट्सप्ततितमः सर्गः
[दशरथौर्ध्वदैहिकम्]
वसिष्ठवचनात् पितुः प्रेतकार्ये भरतस्य प्रवृत्तिः । वसिष्ठस्येत्यादि । घरणीं गत इति । वसिष्ठं साष्टाङ्गं नमस्कृत्येत्यर्थः । गुरुनमस्कारश्च सर्वतः कर्मप्रवृत्त्यङ्गम् । धारणं गतः, घारणां गत इति वा पाठमचीक्लृपत्, यं कञ्चनार्थमवदच्च । अपि च 'तमेवं शोक' इति सर्गादिरिति ब्रूते । ‘दुःखेन जगाम रात्रिः' इत्येव सर्गविच्छेदोचितदेशः । तथैव सर्वत्रानुभवात् [३] ॥ १ ॥
घर्मवित् स इत्यन्वयः । आपीतमिति । बहुदिवसतैलावस्थानोपाधिना आपीतवर्णकं वदनं यस्य स तथा । दशरथमिति । उद्दिश्येति शेषः ॥ २-३ ॥
- ↑ धारणां गतः - धैर्यं प्राप्तः- गो. स्थितिं प्राप्त:-ती.
- ↑ धारणां-ङ.
- ↑ उपलभ्यमानकोशेषु सर्वेषु - ' जगाम रात्रि: ' इत्यत्रैव सर्गविच्छेदो दृश्यते । पूर्वसर्गस्य ६५ श्लोकटिप्पणी द्रष्टव्या ।
- ↑ उद्धृत्य तैलसंसेकात्- ङ.
- ↑ तैलसंरोधात्-तेलद्रोण्याः गो.
- ↑ प्रथमं भूमौ निवेशितं, तत: तैलमार्जनादिकं कृत्वा शयने संवेश्य।