पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्ग:]
161
ततः प्रसन्ना कौसल्या वात्सल्यात्तमसान्त्वयत्


[१] तथा तु शपथैः कष्टैः शपमानमचेतनम् ।
भरतं शोक[२] सन्तप्तं कौसल्या वाक्यमब्रवीत् ॥ ६० ॥
मम दुःखमिदं, पुत्र ! भूयः समुपजायते ।
शपथैः शपमानो हि [३] प्राणानुपरुणत्सि मे ॥ ६१ ॥

भूयः -अभ्यधिकम् । शपथैरिति । हे मातः ! नाहं परपक्ष्यः, तत् कार्येणावधारयेत्येतावतैव सिद्धे बहुशपथैः कीर्तनमात्रतोऽपि पापावहैः शपमानोऽसि हि-यस्मात्, अतो मे प्राणानुपरुणत्सि-प्राणपीडासमं दुःखं जायते, तन्मा कुर्विति शेषः ॥ ६१ ॥

दिष्ट्या न चलितो धर्मात् आत्मा ते, [४][५]शुभलक्षण !
वत्स ! सत्यप्रतिज्ञो [६] मे सतां [७]लोकमवाप्स्यसि ॥ ६२ ॥

अथ स्वीयतया सम्यक् परिगृह्यानुगृह्णाति -दिष्ट्येत्यादितः । आत्मेति । तवान्तःकरणमिति यावत् । यत् सः सत्यप्रतिज्ञः त्वमपि मे रामवदेव पुत्रोऽसि, अतो रामवदेव सतां लोकमवाप्स्यसि ॥ ६२ ॥

इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् ।
परिष्वज्य [८]महाबाहुं रुरोद भृशदुःखिता ॥ ६३ ॥

एवमनुगृह्य पुत्रोचितकृत्येन तमाश्वासयति — इत्युक्त्वेत्यादि ॥

एवं विलपमानस्य दुःखार्तस्य महात्मनः ।
मोहाच्च शोक[९]संरोधात् बभूव लुलितं मनः ॥ ६४ ॥


  1. तदा तं- ङ. च.
  2. सन्तप्ता-ड.
  3. उपरुणत्सि – पीडयसीत्यर्थः । यद्वा प्राणानुपरुणत्सि -रामवियोगेन मे
    निर्गच्छतः प्राणान् स्थापयसि - गो.
  4. सहलक्षणः- शुभलक्षणः ते आत्मा-स्वभावः-ती. ति. सहलक्ष्मण: सत्यप्रतिज्ञोऽसि - लक्ष्मणवत् सत्यप्रतिज्ञोऽसीत्यर्थः - गो. रामप्रतिकूलत्वेन ज्ञातो भवान् लक्ष्मणवदेव रामानुकूलो ज्ञात इति यावत् ।
  5. सहलक्षणः-ङ, च., सहलक्ष्मणः- ङ..
  6. sसि, हि-ङ.
  7. लोकान- ङ.
  8. महात्मानं- ङ.
  9. संरंभात्- ङ.