पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
158
[अयोध्याकाण्ड:
भरतशपथः


देवतानामित्यादि । देवतादिशुश्रूषाकरणहीनस्य यत् पापं तत् प्रतिपद्यतामित्यर्थः ॥ ४६ ॥

सतां लोकात् सतां[१] कीर्त्या: [२] संजुष्टात् कर्मणस्तथा ।
भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥ ४७ ॥

 सतां कीर्त्याः–सद्भिः क्रियमाणश्लाघनात् । भ्रश्यतु, तस्य म आत्मेत्यनुषज्यः ॥ ४७ ॥

अपास्य [३]मातृशुश्रूषां अनर्थे सोऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षाः यस्यार्योऽनुमते गतः ॥ ४८ ॥

 अनर्थे - परस्त्रीवशगत्वाद्यधर्मे ॥ ४८ ॥

[४]बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।
[५]स भूयात् सततं क्लेशी यस्यार्योऽनुमते गतः ॥ ४९ ॥
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् ।
अर्थिनां वितथां कुर्यात् यस्यार्योऽनुमते गतः ॥ ५० ॥

 अर्थिनामाशामिति योजना । आशंसमानानां — स्तुवताम् । ऊर्ध्वचक्षुषां - दातृमुखनिरीक्षकाणाम् ॥ ५० ॥


  1. कीर्त्यात्- ङ.
  2. संजुष्टात्-क्रियमाणादित्यर्थः-ती. सत्सेवितात्- गो. 'जुषी प्रीतिसेवनयोः',
    सतां सञ्जुष्टात् - प्रीतिविषयात्, तैः सेवितात् कर्मण इति वा ।
  3. पुनर्मातृशुश्रूषाग्रहणं तत्त्यागे प्रत्यवायभूयस्तया, तन्नित्यतया च ।
    मातृशुश्रूषा हि नित्या, यतस्तस्थां पतितायामपि शुश्रूषां विदधति स्मृतयः-गो.
    परन्तु ' दीर्घबाहुर्महावक्षा: ' इत्यादि-परिशीलने प्रथमो हेतुरेव युक्त इति प्रतिभाति ।
  4. बहुभृत्यो-ङ.
  5. समयात्-ङ.