पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्गः]
153
कौसल्यां प्रत्युवाचेदं भरतः प्राञ्जलिस्तदा


 प्रैष्यं-स्वार्थे ष्यञ्, प्रेष्यत्वमित्यर्थः । यात्विति । यस्य मेऽनुमते गतश्चेत् तस्य मे आत्मा यात्विति योजना । तथा मे आत्मा सूर्यं च प्रति मेहतु-तत्पापं प्राप्नोतु । हन्तु-हननपापं प्राप्नोतु ॥ २२ ॥

कारयित्वा महत् कर्म भर्ता भृत्यमनर्थकम् ।
अधर्मो यस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ २३ ॥

 यस्य कर्मेणः भर्ता-कर्मप्रेरकः महत् दुष्करं कर्म भृत्यं कारयित्वा, 'हृक्रोरन्यतरस्याम्' इति द्विकर्मकत्वम् तत् अनर्थकं-अर्थभूत भृतिशून्यं करोति, अस्य यांऽधर्मः स मे आत्मनः अस्तु ॥ २३ ॥

[१] परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।
[२]ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः ॥ २४ ॥

 ततस्त्विति । आद्यादित्वात् चतुर्थ्यर्थे तमिः, तम्मै इत्यर्थः । तस्य आत्मनोऽस्त्विति सर्वत्रान्वयः ॥ २४ ॥

बलिषड्भाग[३]मुद्धृत्य नृपस्या[४]रक्षितुः प्रजाः ।
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥ २५ ॥

 बलि:- करः, तद्रूपः षड्भागस्तथा । यस्य नृपस्याघर्मः सः, अस्य मे आत्मनोऽस्तु ॥ २५ ॥

संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् ।
तां [५]विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥ २६ ॥

 सत्रे यागे। तां विप्रलपतां- अप्रलपताम् ॥ २६ ॥


  1. राज्ञि परिपालयति सति तं प्रति द्रुह्यतां-गो.
  2. ततस्तं-ङ.
  3. उद्धृत्य – स्वीकृत्येति यावत् ।
  4. रक्षत:-ङ.
  5. चापकपतां-ङ. च.