पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५ सर्ग:]
147
उक्तैवं भरतोऽगच्छत् कौसल्यामभि वीक्षितुम्


[१]अहमप्यवनीं प्राप्ते रामे सत्यपराक्रमे ।
कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥ ३४ ॥
[२] इति नाग इवारण्ये तोमराङ्कुशतोदितः ।
पपात भुवि संक्रुद्धः निःश्वसन्निव पन्नगः ॥ ३५ ॥
संरक्तनेत्रः शिथिलाम्बरस्तथा
विधूतसर्वाभरणः परंतपः ।
बभूव भूमौ पतितो नृपात्मजः
शचीपतेः [३] केतुरिवोत्सवक्षये ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुस्सप्ततितमः सर्गः



शचीपतेः केतुः- इन्द्रध्वजः । तालु (३६) मानः सर्गः ॥ ३६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुस्सप्ततितमः सर्गः



पञ्चसप्ततितमः सर्गः
[भरतशपथः]

दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा स वीर्यवान् ।
नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम् ॥ १ ॥

एवं क्रुद्धो भरतः परुषवचनैर्मातरं मर्मसु निकृत्य तत्कृतं कार्यं न निजानुमतमिति कौसल्यायै शपथैः प्रत्याययति । दीर्घेत्यादि । दीनां — स्वमनीषितभङ्गतः ॥ १ ॥


  1. वनात् राज्यं प्राप्त इति भावः ।
  2. पीडितत्वे गज:, कोषनि:श्वासे पन्नगंश्च दृष्टान्तः ।
  3. उत्सवसमाप्त्यनन्तरमवरोप्य भूमौ स्थापितः उत्सवायेंन्द्रध्वज इव ।