पुत्रशोको मातुः दुस्सह इत्यत्र इतिहासमाह - अन्यदेत्यादि ।
धर्मज्ञाः- पुराविदो वृद्धाः अन्यदा - अन्यस्मिन् कस्मिंश्चित्पूर्वकाले,
किलेत्यैतिह्ये ; तथा वदन्ति किलेत्यर्थः । कथं वदन्ति ? इत्यतः -
वहमानौ–हलं शकटं वा ॥ १५ ॥
तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले ।
रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ १६ ॥
अर्ध दिवसस्य- अर्धदिवसे, एकदेशीसमासः, मध्याह्न इति यावत् । पुत्रौ - साक्षात्पुत्रौ, किञ्चिन्निमित्ततो भुवं गतौ, तथाऽग्रे वदति ' मम कायात् प्रसूतौ' इति ॥ १६ ॥
अधस्तात् व्रजतस्तस्याः सुरराज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७ ॥
सुरराज्ञः-सुरराजस्येति यावत् ॥ १७ ॥
निरीक्षमाणस्तां शक्रः ददर्श सुरभिं स्थिताम् । [१] आकाशे [२] विष्ठितां दीनां रुदतीं भृशदुःखिताम् ॥ १८ ॥ तां दृष्ट्वा शोक[३]सन्तप्तां वज्रपाणिर्यशस्विनीम् । इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः ॥ १९ ॥ [४] भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् । कुतोनिमित्तः शोकस्ते ब्रूहि, [५]सर्वहितैषिणि ! ॥ २० ॥