धर्मेणैकेनैव रक्षा-रक्षणं येषां ते तथा । कुलक्रमागतं चारित्रं तथा । चारित्रविषयकं शौण्डीर्यं-श्लाध्यत्वं तथा ॥ २३ ॥
त्वयि चैवंविधं दुर्बुद्धिकारणं महावंशप्रसूतायां न पश्यामीत्याह – तवापीत्यादि । हे सुमहाभागे !, तदुपपादकं विशेषणं- जनेत्यादि । जनेन्द्रः – केकयकुलकूटस्थः- तत्कुलजः पूर्वकः-कारणं - - पिता यस्याः सा तथा, तस्याः सम्बुद्धिः । अतो महाकुलप्रसूतायास्तवानुचितोऽपि विगर्हितोऽयं बुद्धिमोहः त्वयि कथं संभूतः ? ॥
न तु कामं करिष्यामि तवाहं, पापनिश्रये !
त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ २५ ॥
अस्तु यतः कुतश्चित् । त्वत्पापनिश्चयमहं नानुवर्तयामीत्याह-न तु काममित्यादि ॥ २५ ॥
एष त्विदानीमेवाहं अप्रियार्थं [४] तवानघम् ।
निवर्तयिष्यामि वनात् भ्रातरं स्वजनप्रियम् ॥ २६ ॥
न केवलमिष्टाकरणम्, अनिष्टमपि तवानुष्ठास्यामीत्याह- एष त्विदानीमित्यादि । अप्रियार्थं-तत्संपादनार्थम् ॥ २६ ॥