पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३ सर्ग:]
131
स तु दु:खाभिसन्तप्तः जगर्हे मातरं ततः


 एवं सर्वानर्थमपि कैकेयीमूलमिति तन्मुखादेव निस्संशयं श्रुत्वा तामनेकप्रकारत उपलभते । श्रुत्वेत्यादि । वृत्तं - अतीतम् ॥ १ ॥

किं नु ! कार्यं [१] हतस्येह मम राज्येन शोचतः ।
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥ २ ॥

 इतस्येति । त्वयाऽपारदुःखनाशितस्येत्यर्थः ॥ २ ॥

दुःखे मे दुःखमकरोः व्रणे [२] क्षारमिवादधाः ।
राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥ ३ ॥

 मे दुःखे पुनर्दुःखमकरोः । तत्र दृष्टान्तः - व्रणे क्षारमिवेति । खरमूत्रसहितचूर्णं अदघा इव-दत्तवतीव ॥ ३ ॥

कुलस्य त्वमभावाय कालरात्रिरिवागता ।
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ ४ ॥

 रात्रिः - संहाररात्रिः । उपगूह्य - आलिङ्ग्य । नावबुद्धवानिति । सुखमिति भ्रान्तोऽभूदित्यर्थः ॥ ४ ॥

मृत्युमापादितो राजा त्वया [३] मे, पापदर्शिनि !
सुखं परिहृतं मोहात् कुलेऽस्मिन्, कुलपांसिनि ! ॥ ५ ॥
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः ।
तीव्रदुःखाभिसंतप्तः [४] वृत्तो दशरथो नृपः ॥ ६ ॥


  1. स्वदौर्भाग्यावेदनाय लोकोक्तिरियं 'हतस्य' इति । शोचतो ममेत्यन्वयः ।
  2. क्षारं-लवणकट्वन्यतररसं जलादि।
  3. मे–मन्निमित्तम् ।
  4. वृद्धो-ङ.