पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
104
[अयोध्याकाण्डः
भरतप्रस्थानम्

इमानि च महार्हाणि वस्त्राण्याभरणानि च ।
प्रतिगृह्य, विशालाक्ष ! मातुलस्य च दापय ॥ ४ ॥

 मातुलस्य- युधाजितः । दापयेति । तदर्थं प्रहितमिति शेषः ॥ ४ ॥

अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते ।
दशकोट्यस्तु संपूर्णाः तथैव च, नृपात्मज ! ॥ ५ ॥

 तर्हि कियन्मया ग्राह्यं, कियन्मातुलस्य दापनीयमित्यत आह--- अत्रेत्यादि । आहृतद्रव्य इत्यर्थः ॥ ५ ॥

प्रतिगृह्य तु तत्सर्वं स्वनुरक्तः सुहृज्जने ।
दूतानुवाच भरतः कामैस्संप्रतिपूज्य तान् ॥ ६ ॥

 सुहृज्जने - मातुलादिरूपे । प्रहाप्येति शेषः ॥ ६॥

कच्चित् स कुशली राजा पिता दशरथो मम ।
[१]कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥ ७ ॥

 ज्येष्ठानुक्रमेण कुशलप्रश्नः- राजेत्यादि ॥ ७ ॥

आर्या च धर्मनिरता धर्मज्ञा [२]धर्मवादिनी ।
अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ ८ ॥
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा ॥ ९ ॥
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी ।
अरोगा चापि मे माता कैकेयी किमुवाच ह ॥ १० ॥


  1. कञ्चिच्चारोग्यता- ङ.
  2. धर्मदर्शिनी - ङ.