पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८ सर्ग:]
95
वसिष्ठेनाभ्यनुज्ञाता: दूता: संस्वरिता ययुः

ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् ।
[१]वसिष्ठेनाभ्यनुज्ञाताः दूताः सन्त्वरिता ययुः ॥ ११ ॥

 प्रास्थानिकं-प्रस्थानप्रयोजनं कार्यशेषं विशिष्टपाथेयादिसंपादनलक्षणम् ॥ ११ ॥

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ।
[२] निषेवमाणास्ते जग्मुः नदीं मध्येन [३]मालिनीम् ॥ १२ ॥

 न्यन्तेनेति । अपरतालस्य-तदाख्यस्य गिरेः न्यन्तेन-पश्चिमभागेन गत्वा, अथ प्रलम्बस्य-तदाख्यस्य उत्तरं-उत्तरप्रदेशं प्रति गत्वा, अथ मालिनीं नदीं मध्येनातीत्य तामुत्तरमागतो निषेवमाणास्सन्तः जग्मुः ॥

[४] ते [५]हस्तिनपुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः ।
पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ १३ ॥

 ते हस्तिनपुरे गङ्गामित्यादि । प्रत्यक् - उदीचीं दिशं यान्तः ते पाञ्चालदेशमासाद्य तत्र हिमवत आग्नेयदिङ्मुखप्रवाहां गङ्गां हस्तिन पुरसमीपे तीर्त्वा प्रत्यङ्मुखाः सन्तः मध्येन [६] कुरुजाङ्गलं- जाङ्गलं- निर्जलप्रदेशा:- कुरुदेशैकदेशवर्तिजाङ्गलस्तथा--कुरुजाङ्गलस्य मध्यमार्गमाश्रित्येत्यर्थः; 'एनपा द्वितीया ' इति द्वितीया जाङ्गलशब्दात् ॥

सरांसि च सुपूर्णानि नदीश्च विमलोदकाः ।
निरीक्षमाणास्ते जग्मुः दूताः कार्यवशात् द्रुतम् ॥ १४ ॥


  1. पुनर्वसिष्ठेनाभ्यनुज्ञानं स्वविलम्बस्याल्पत्वं द्योतयितुं - गो.
  2. निरीक्षमाणाः- ङ.
  3. सरय्वाः उपनदीयं, यस्यास्तीरे कण्वाश्रमोवर्तत।
  4. श्लोकद्वयमेकान्वयम् ।
  5. हास्तिनपुरे-ङ.
  6. कुरुजाङ्गलं-कुरुदेशस्य पश्चिममागे विद्यमान: वनमयः प्रदेश: