एतत् पृष्ठम् परिष्कृतम् अस्ति
६७ सर्ग:]
89
राजा माता पिता चैव सदा हितकरो नृणाम्
विषाणिनः- प्रशस्तदन्तवन्तः । षष्टिः हायनाः येषां ते षष्टिहायनाः ॥ २० ॥
एकः असहाय एव चरतीत्येकचरः ॥ २३ ॥
नाराजके जनपदे [४]योगक्षेमं प्रवर्तते ।
न चाप्यराजके सेना शत्रून् विषहते युधि ॥ २४ ॥
नाराजके जनपदे हृष्टैः परमवाजिभिः ।
नराः संयान्ति सहसा रथैश्च प्रतिमण्डितैः ॥ २५ ॥
प्रतिमण्डितैः - अलंकृतैः रथैः ॥ २५ ॥
नाराजके जनपदे नराः शास्त्रविशारदाः ।
संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ २६ ॥
- ↑ अस्यतां क्षिपतां । उपासने-अभ्यासे ’स्यादुपासनमभ्यास:’ इत्यमरः ।
तलनिर्घोष:--ज्याकरतलनिर्घोषः - गो. सन्तोणत् करतलघोषो वा । - ↑ बहुपण्यैः समाचिता:-समृद्धाः, यद्वा पण्यानां क्रय्यद्रव्याणां समाचिता:- दशभारा: 'आचितो दशभार:
स्यात्' इत्यमरः, बहवः पण्यसमाचिताः येषां ते तथा- गो. - ↑ यस्मिन् देशे सायंकालो भवति तदेव गृहं यस्य- तादृशो वशी- जितेन्द्रियो मुनिः असहाय: न चरितुं
प्रभवति ॥ - ↑ योगक्षेम:- ङ.