पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
84
[अयोध्याकाण्ड:
तैलद्रोण्यधिशयनम्

इतीव तस्मिन् शयने न्यवेशयन्
 [१] विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ २७ ॥
गतप्रभा द्यौरिव भास्करं विना
 व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता महात्मना
 [२] चास्रकण्ठाकुलमार्गचत्वरा ॥ २८ ॥

 आस्रकण्ठेति । आकण्ठं घारारूपेण प्रवहद्भिः आस्त्रैः उपलक्षिताः कण्ठाः येषां ते तथा, तैराकुलानि मार्गाणि चत्वराणि यस्याः सा तथा ॥ २८ ॥

नराश्च नार्यश्च समेत्य सङ्घश:
 विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्यां नरदेवसंक्षये
 बभूवुरार्ता न च शर्म लेभिरे ॥ २९ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्षष्टितमः सर्गः


[३] अलं(३०)मानः (?) सर्गः ॥ २९ ॥

 इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे षट्षष्टितमः सर्गः



  1. निरीक्ष्य राजानमतीतदर्शनम्-ङ.
  2. आस्रकण्ठैः - कण्ठस्तम्भितबाप्पैः- गो.
  3. व्याख्यात्रास्मिन् सर्गे श्लोकसंख्या ३० इति निर्दिष्टा । परन्तु सर्वत्र एकोनत्रिंशदेवोपलभ्यते । तिलकेऽपि–'एकः श्लोकः अत्र सर्गे कतकसंख्यया भ्रष्ट इति ज्ञायते' इत्युक्तम् ॥