पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
80
[अयोध्याकाण्डः
तैलद्रोण्यधिशयनम्


 [१]किम्पाकः-काकमदर्कः- विषभेदः । तं कोपादिना भक्षयन्, यथा आत्महत्यादोषं न बुध्यते तद्वदित्यर्थः ॥ ६ ॥

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।
सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ ७ ॥

[२] अनियोगे- अन्याय्ये ; अनुचितो नियोगस्तथा, तस्मिन् वरव्याजेन कैकेय्या नियुक्तस्तथा ॥ ७ ॥

स मामनाथां विधवां नाद्य जानाति धार्मिकः ।
रामः कमलपत्राक्षः [३] जीवनाशमितो गतः ॥ ८ ॥

[४]जीवनाशमिति । राज्ञ इति शेषः ॥ ८ ॥

विदेहराजस्य सुता तथा [५]चारुतपस्विनी ।
दुःखस्यानुचिता दुःखं वने पर्युद्धिजिष्यति ॥ ९ ॥

[६] चारुतपस्विनी–सुष्ठुतपोयुक्ता, भर्त्रनुयानादित्याशयः । दुःखं वन इति । वने दुःखं प्राप्य पर्युद्विजिष्यति- भेष्यतीति यावत् ॥ ९ ॥


  1. किंपाकः–निम्ब: । कतकस्तु किंपाकः विषभेदः, त कोपादिना भक्षयन् आत्महत्या दोष न बुध्यते तद्वदित्यर्थः इत्याह । तत्र लुब्ध इति नात्यन्तसमञ्जसम् । धनलोभादिना परस्य विषभक्षणं कारयन् यथा हत्यादोषं न बुध्यते इति वक्तुमुचितम् - ति. लुब्धः- अर्थलिप्सु:, किंपाकं-विषमिश्रपाकं, यद्वा कुत्सितपाकं-अभक्ष्यमिति यावद-ती.
  2. अनियोगे-वरप्रदानसमये वरस्य विशेषनिर्देशाभावे सति- गो.
  3. जीवन् नाश-च.
  4. राज्ञो जीवनाशो यथा भवति तथा गत:-ति. जीवन्नेव नाशं-अदर्शनं गतः-ती. वस्तुतस्तु-लोके कस्मिंश्चिज्जीवत्यपि, तद्दर्शनादीनां यावज्जीवं प्रसक्तेरप्यभावे निराशया 'जीवन्नपि स मृत इव' इति निर्देशवत् पत्या पुत्रेण च परित्यक्तायाः कौसल्याया: परमशोकादेवमुक्तिः 'जीवन्नेव नशित्व। गत:’ इति |
  5. सीता-ङ.
  6. तपस्विनी - शोचनीया सीता । दु:खमिति कियाविशेषणम्- गो.