पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
74
[अयोध्याकाण्ड:
अन्तः पुराक्रन्दः

[१]मङ्गलालंभनीयानि प्राशनीयान्युपस्करान् ।
उपनिन्युस्तथाऽप्यन्याः कुमारीबहुलाः [२] स्त्रियः ॥ ९ ॥

 मङ्गलार्थं आलंभनीयानि - स्पर्शनीयानि गवादीनि, 'आलंभः स्पर्शहिंसयोः ' । प्राशनीयानि - गङ्गोदकतुलसीतीर्थादीनि । उपस्कराः-दर्पणवस्त्राभरणादयः । कुमारीबहुलाः स्त्रिय इति । वारयोषित इति यावत् ॥ ९ ॥

सर्वलक्षणसंपन्नं सर्वं विधिवदर्चितम् ।
सर्वं सुगुणलक्ष्मीवत् तत् बभूवाभिहारिकम् ॥ १० ॥

 आभिहारिकं- राज्ञे प्रातर्यदभिहर्तव्यं - मङ्गलार्थमानेतव्यं तत्सर्वं सर्वलक्षणसंपन्नत्वादिधर्मकं बभूव । सुगुणं च तत् लक्ष्मीवच्च-तथा ॥

[३] तत्तु सूर्योदयं यावत् सर्वं परिसमुत्सुकम् ।
[४]तस्थावनुपसंप्राप्तं किं स्विदित्युपशङ्कितम् ॥ ११ ॥

 तत्तु - उक्ताभिहारिकं तु । परिसमुत्सुकमिति । राजदर्शनं प्रतीति शेषः । अनुपसंप्राप्तं - अप्राप्तराजदर्शनमित्यर्थः । अत एव, किं स्वित्- इत्यभिशङ्कितञ्च ॥ ११ ॥

अथ याः कौसलेन्द्रस्य शयनं प्रत्यनन्तराः ।
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ १२ ॥

 अनन्तरा:- आसन्ना इति यावत् ॥ १२ ॥


  1. मङ्गलरूपानुलेपनानि तैलोद्वर्तनादीनि, प्राशनीयानि-दन्तधावनानन्तरं गण्डूषत्वेन प्राशनीयानि, संपिष्टतिलनारिकेलजीरकादिद्रव्याणि ओषघिविशेषानिति वाऽर्थः-गो.
  2. स्त्रिय इति द्वितीया - गो.
  3. तत्तु-परिजनजातं-गो.
  4. अनुपसंप्राप्तं-अनागतं राजानं प्रति-ती. एवं परिवारगणः स्वस्वसेवायै सन्नद्धः राजानं प्रतीक्षन्नासीत् ।
    राजा तु नाजगाम यथापूर्वम् । अतः शङ्का समजनि । राजानं सृष्टा बोधयितुं तु
    नैषामर्हता । उत्तरश्लोके 'भर्तारं प्रत्यबोधयन्' इति कथनात् ।