पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९ सर्ग:]
66
९ सर्ग:]



[१]क्षत्रियाणां तु वीराणां वनेषु [२]नियतात्मनाम् ।
धनुषा कार्यमेतावत् आर्तानामभिरक्षणम् ।। २६ ।।

 ननु आर्तमुनिजनरक्षणार्थमेव अनपराधानामपि वघोऽस्तु इति सिद्धान्तमपि उपमर्धाह—क्षत्रियाणां खित्यादि । क्षत्रियाणां तु - क्षत्र वर्माई पदप्रतिष्ठितानामेव, अत एव वीराणां तु - राज्यरक्षणशेष- तया युद्ध| दिप्रवृत्तिमतामेव वनेषु – अदेशवनेषु आर्तानां नियतात्मनां रक्षणमिति यत् एतावदेव धनुषा कार्यम् ॥ २६ ॥

क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ।
[३] व्याविद्धमिद [४]मस्माभिः देशधर्मस्तु पूज्यताम् ॥ २७ ॥

 न चास्माकं तत्प्रत्यधिकारः इत्याह – क च शस्त्रनित्यादि । क्षात्र–क्षत्रपदराज्यप्रतिष्ठा शस्त्रं क्व ? इदानीमस्माभिराश्रियमाणं वनं च क ? जटावल्कलादिघारणपूर्वमनुष्ठीयमानं तपश्च क ? अतः अस्माभिः इदानी अनुतिष्ठासितं इदं वधादिक व्याविद्धं- परस्परव्याहतमेव | देशधर्मस्तु- देश प्राप्तः क्षत्रियधर्मस्तु भवद्भिरपि देशं गत्वैव पूज्यताम् ॥ २७ ॥

[५][६]कदर्यकलुषा बुद्धिः जायते शस्त्रसेवनात् ।
पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥ २८ ॥



  1. बनेषु निरतात्मनां आतीनां अभिरक्षणं वीराणां क्षत्रियाणां कार्यम्-गो.
    नियतात्मनामित्यपि क्षत्रियविशेषणम्-रा. " परमपावने तपोवने परहिंसा न करणीया '
    प्रति कथनशैली परिशीलने-नियतात्मनां - तपस्विनां वनेषु – इत्यप्यन्वयः सुवचः । एवज्ञ
    आर्तसंरक्षणमेव कर्तव्यम्, न तु निर्वैरवध इत्याशयः ।
  2. निरता--ङ,
  3. परस्पर विरुद्धमिदं अस्माभिर्न पूज्यतां; देशघभैः-
    तपोवनधर्म: पूज्यताम्-गो.
  4. अस्माकं-ड.
  5. तदार्थ कडधा- ड.
  6. अत्र समासास्वारस्यै; एतदपेक्षया--
    'तदार्थ कलुषा' इति पाठ: समीचीन इव ।