एतत् पृष्ठम् अपरिष्कृतम् अस्ति
52
अरण्यकाण्ड:
सुतीक्ष्णसन्दर्शनम्
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।
अथ गुणमुक्तु दोषमध्याह – इममित्यादि । अहत्वेति । हननमकृत्वेत्यर्थः । अपि तु लोभयित्वा चितक्षोमं कृत्वेत्यर्थः । स्वयं अकुतोभयाः–ऋषिभिः बघाभावात् कुतश्चनापि भयरहिताः । नान्यो दोषो भवेदत्र' इत्यस्यैव विवरणं--- मृगेभ्योऽन्यत्र विद्धि वै इति ॥
तच्छ्रुत्वा वचनं तस्य महर्षेः लक्ष्मणाग्रजः ॥ १७ ॥
उवाच वचनं धीर: [१] विकृष्य सशरं धनुः ।
तच्छ्रुत्वेति । मृगभयविषयकं वचनमित्यर्थः ॥ १७ ॥
तानहं, सुमहाभाग ! मृगसङ्घान् समागतान् ॥ १८ ॥
हन्यां निशितधारेण शरेणा [२]शनिवर्चसा
|
मृगसङ्घान् हन्यामिति प्रप्तकाले लिङ्, यथाप्राप्त कालं अशेषमृगसङ्घहननं कुर्याम् ॥ १८ ॥
- ↑ विकृष्य सशरं धनुरिति स्वोत्साहप्रकटनम्-गो
- ↑ नतपर्वणा-ङ.
- ↑ यत्र - यदुपद्रवे भवान् अभिषज्येत- र्प डयेत,
ततः कृच्छतरं- केशाधिक्यं किं स्यात् । एतेन मुनीनां खेदहेतवः
तदाझ्या हन्तभ्या एवेति रामाभिप्रायः सूचित:-रा. - ↑ भवान् यत्रा-ज.
- ↑ दु:खतरं-ङ,
- ↑ मृगवधवचन श्रवणानन्तरं तूष्णींमावादिना मृगवधस्य मुनेरनभिमतत्वं
विज्ञायाह-एतस्मिन्निति-रा. वस्तुतस्तु - शरभङ्गाश्रमागतमुनिभिस्साकमेव
सुतीक्ष्णाश्रमागमनात् (6-26, 7-1 श्लोको द्रष्टभ्यौ), अनुपदं
'मुनयस्त्वरयन्ति नः' (८-५) इत्युक्तेच ऋषिभ्यो दत्तप्रतिशैवात्र हेतुरिति
प्रतिभाति ॥ - ↑ एकस्मिन्-ड.