पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
42
[अरण्यकाण्ड:
रक्षोवधप्रतिज्ञा



 सर्वद। अनावृतप्रदेशनिलयाः आकाशनिलयाः ।। स्थण्डिल उपरि तानावृत क्रोडीकृतस्थलशयनाः स्थाण्डिलशायिनः ।। ४ ।।

[१].तथोर्ध्ववासिनो दान्ताः तथाऽऽर्द्रपटवाससः ।
[२].संजपन्तः तपोनित्याः तथा पञ्चतपोऽन्विताः ॥ ५ ॥

 वृक्षशास्त्रागिरिशिखराम्रा द्यूर्ध्व प्रदेशनित्यवासशीलाः ऊर्ध्यवासिनः इति पाकः । उपवासिनः इत्यन्यः [३] पठति स तु साधारणधर्म इत्युपेक्ष्यः । आर्द्रपटनित्यवसनशीला: आर्द्रपटवाससः। संजपन्तस्तु सदाजपपराः । तपोनित्यास्तु - " य एवं विद्वान् महारात्र उषस्युदिते ब्रजंस्तिष्ठन्नासीनः शयानोऽरण्ये ग्रामे वा यावत् तरसं स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः” इत्युपदिष्टतपोनित्यानुष्ठान- तत्पराः तपोनित्याः । पञ्च तपोऽन्विताः- ग्रीष्मे पञ्चाग्निमध्यस्थाः ||

सर्वे ब्राह्मया श्रिया जुष्टा: [४] दृढयोगसमाहिताः ।
शरभङ्गाश्रमे रामं अभिजग्मुश्च तापसाः ॥ ६ ॥

 ब्राह्मचा श्रिया-ब्रह्मविद्यानुष्ठानजनित ब्रह्मवर्चसेन दृढभूतब्राह्मतंत्र- मंत्रज्ञानयोगसमाहिताः - योगैकाप्रचित्ताः ॥ ६ ॥

अभिगम्य च धर्मज्ञाः रामं धर्मभृतां वरम् ।
ऊचुः परमधर्मज्ञं ऋषिसङ्घाः समाहिताः ॥ ७ ॥
त्वमिक्षाकुकुलस्यास्य पृथिव्याश्च, महारथ !
प्रधानश्वासि नाथश्च [५] देवानां मघवानिव ॥ ८ ॥



  1. व्रतोपवासिनः- मासोपवासिनः-ड
  2. सजपाथ-ड
  3. गोविन्दराजः, तीथ वा अत्र तिलके “व्रतोपवासिनः' इति पाठस्तु चिन्त्यः, तस्य साधारणधर्मत्वादिति कतकः" इत्यनूदितम् ॥
  4. दृढयोगा:- ङ.
  5. यथा देवेन्द्र इति शक्रस्य नाम,तथा रघुपतिरिति तव नामेत्यर्थः - गो.