पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ सर्गः]
37
सुतीक्ष्णममिगच्छेति प्राह रामं मुनीश्वर:



इह, राम ! [१]महातेजाः सुतीक्ष्णो नाम धार्मिकः ।
वसत्यरण्ये [२] धर्मात्मा स ते ' श्रेयो विधास्यति ॥ ३४ ॥

 इह अरण्ये वसतीति । अदूरे इति शेषः ॥ ३४ ॥

[३]सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।
रमणीये वनोद्देशे स ते वासं विधास्यति ॥ ३५ ॥
इमां मन्दाकिनीं, राम ! प्रतिस्रोतामनुव्रज ।
नदीं [४]पुष्पोडुपवहां [५] तत्र तत्र गमिष्यसि ॥ ३६॥

 इमां मन्दाकिनीमिति । मन्दाकिनीशब्दः पुण्यनदीवाची । इह चित्रकूटस्थलेऽपि तथैवेति मन्यामहे [६]। प्रतिस्रोतां - आर्ष- माबन्तत्वम्, प्रतिस्रोतसं कृत्वा अनु-प्राप्य व्रज | नद्यां पुनः पूर्ववाहिन्यां पुरुषेण पश्चिमाभिमुखतया गमने प्रतिस्रोतस्त्वं भवति । [७] "उड्डुपं तु प्लवः " || ३६ ||पाकार पुष्पचयावहामित्यर्थ:- गो. रा.

एष पन्थाः, नरव्याघ्र! मुहूर्त पश्य, तात ! माम् ।
[८],यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥ ३७ ॥

 एष पन्था इति । उक्त इति शेषः । अथ ऋषिचिकीर्षित - ब्रह्ममेघप्रधानह विर्देवतात्वेन ब्रह्मामेरास्ये सन्निधानार्थमाह --मुहूर्त तात मां पश्येति । अत्र तातशब्दस्य आन्तराशयः जगज्जनकेति ॥ ३७॥



  1. महाप्राशः-ड
  2. नियत: - ङ.. ज.
  3. अयं श्लोकः कुण्डलितः-ज.
  4. पुष्पोत्कर--ड.
  5. तत्र तत्र गमिष्यसि' इत्यनेन कचिन्नदीतीरे क्वचित् व्यवहिते च मागें
    इत्युच्यते ।
  6. न दृश्यते च एवमेव तत्तत्प्रान्तेषु व्यवहारः ॥ गङ्गाप्रान्तवासिजनै: इतरा नयपि गङ्गेति तथा कावेरीप्रान्तवासिजनैः इतराऽपि कावेरीति हि व्यवह्वियते ॥
  7. पुष्पवत् लघु उडुपानि वहतीति तथा ।
  8. यावञ्जुहोमि-ङ