एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ सर्ग:]
33
रामः सौमित्रिसीताभ्यां ववन्दे तं मुनीश्वरम्
यावज्जानामीति । यावत्पुरेति लट् । व्यक्तं ज्ञास्ये इत्यर्थः ।
यद्यप्युक्तलिङ्गैः शतक्रतुरित्यनुमीयते, अथापि प्रत्यक्षतोऽवगमिष्यामी-
त्यर्थः ॥ १९ ॥
तमेवमुक्ता सौमित्रिं इहैव स्थीयतामिति ।
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ २० ॥
उक्तानुवादपूर्वं व्यापारान्तरोपदेशः - तमेवमित्यादि ॥ २० ॥
उपयान् असौ रामः यावत् नाभिभाषते तावत्तु – ततः प्रागेव मां निष्ठां - स्थानम्, 'आतश्चोपसर्गे' इत्यङ् । स्वर्गमिति यावत्, नयत- प्रापयत । तत एव हेतोः अस्मान् मा द्रष्टुमर्हतीति विबुधानब्रवीत् । स्वस्थानगमनेन अस्माभिः एतद्दर्शनं परिहर्तव्यम् । देवतैः संभाषमाणे मनुष्यभावप्रतीतिभङ्गप्रसङ्गात् । रावणवषश्च मनुष्यभावैकसाध्यः । जतो नायं तद्दर्शनकाल इत्यर्थः [४] ॥ २२ ॥
[५]अथ वज्री तमामन्त्र्य मानयित्वा च तापसम् ।
रथेन हरियुक्तेन ययौ दिवमरिन्दमः ॥ २३ ॥
- ↑ शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् - ङ.. ज. झ
- ↑ एतदनन्तरं -- तावद्भच्छामहे यावन्मां नाभिभाषते इत्यधिकं - ङ.. जितवन्तं कृतार्थं च द्रष्टाऽहमचिरादिमम् । कर्म बलेन
कर्तव्यं महदन्यैः सुदुष्करम् । निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥
-ड. ज. झ - ↑ नयतु-ड.. झ.
- ↑ विपदि स्थितेनैवंविधवैभवस्य दर्शनमनुचितमित्यर्थः - ति.
- ↑ इति-ङ. ज.