पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ सर्गः]
29
ततस्तु ते त्रयो हृष्टाः शरभङ्गाश्रमं ययुः



पञ्चमः सर्गः

[शरभङ्गदर्शनम्]

[१]अग्रे हत्वा भीमबलं विराधं राक्षसं वने ।
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥ १ ॥
अब्रवील्लक्ष्मण रामः भ्रातरं दीप्ततेजसम् ।

 अथ रामस्य शरभङ्गदर्शनम् - अग्रे हत्वेत्यादि ॥ १ ॥

कष्टं वनमिदं दुर्गं न च सो वनगोचराः ॥ २ ॥
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ।
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥ ३ ॥

 कष्टं - " स्यात् कष्टं कृच्छ्रम् -पीडावहमिति यावत् । च-यस्मात् वयं वनगोचरा न स्मः, अतः वनं कष्टं अस्माकमिति पूर्वेणान्वयः । गच्छामह इति - गच्छाम इति यावत् । इत्युक्तेति शेषः ॥ ३ ॥

तस्य देवप्रभावस्य तपसा [२] भावितात्मनः ।
समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ४ ॥
विभ्राजमानं वपुषा [३] सूर्य [४]वैश्वानरोपमम् |

 भावितः - सिद्धः आत्मा यस्य स तथा । अद्भुतं ददर्शे- स्युक्तं, किं तदित्यपेक्षायामुच्यते — विभ्राजमानमित्यादि । वपुषा- पुस्त्विषा || ४ ||



  1. महत्वा तु तं सर्वत्र
  2. भावितः शुद्धः आत्मा यस्य ।
  3. वैश्वानरः–सूर्यव्यतिरिक्ततेजांसि, सूर्यादितेजस्समुदायोपममित्यर्थ:- गो.
    वस्तुतस्तु —— प्रकाशे सूर्योपमत्वम्, तादृशतेजसः निगूढत्वे
    वैश्वानरोपमत्वम् ।।
  4. वैश्वानरप्रभम् - ङ. ज.