पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

510 ऋष्यमूकमार्गकथनम् [अरण्यकाण्ड: 'सुमनोभिश्चितांस्तत्र तिलकान् नक्तमालकान् । उत्पलानि च फुल्लानि पङ्कजानि च, राघव ! ॥ २२ ॥ न तानि कश्चिन्माल्यानि' तत्रारोपयिता* नरः । न च वै म्लानतां यान्ति न च शीर्यन्ति, राघव ! ॥ तत्र कश्चिदपि नरः तानि माल्यानि नारोपयिता- गृहीत्वा अथिता न । महावनत्वात् पुष्पबाहुल्याच्च ॥ २३ ॥ मतङ्गशिष्याः तत्रासन् ऋषयः सुसमाहिताः । तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥ २४ ॥ ये प्रपेतु 'मेहीं तूर्ण शरीरात् स्खेदविन्दवः । ↑ तानि जातानि माल्यानि मुनीनां तपसा तदा ॥ २५ ॥ स्वेदबिन्दुसमुत्थानि न 'विनश्यन्ति, राघव ! अम्लानाशीणकारणं-मतनशिष्या इत्यादि । भाराभितप्तानां- गुर्वर्थमाह्वियमाणवन्यपदार्थमारेण श्रान्तानामित्यर्थः । तानि माल्यानीति विधेयापेक्षया नपुंसकत्वम् ॥ २४-२५॥ 6 ● तेषामद्यापि तत्रैव दृश्यते परिचारिणी ॥ २६ ॥

  1. श्रमणी शबरी नाम, काकुत्स्थ ! चिरजीविनी

§ त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥ २७ ॥

  • मतमशिष्यप्रभावाद्वा अनारोपणम् गो. + स्वेदबिन्दवः वायुना वृक्षोपरि

नीता: माल्यानि जातानीत्याशयः - गो. ‘न विशीर्यन्ति' इति अविशरणस्योक्तत्वादेवं व्याख्यातं स्यात् । मतङ्गस्य, तच्छिष्याणां वृत्तत्वेऽपि शबर्या अवस्थाने बीजं— चिरजीविनीति । बहुवृद्धेति यावत् । तस्याः सन्यासेऽनधिकारात श्रमणीत्वम् । § या दृश्यते, सा त्वां दृष्ट्वा - इत्यन्वयः । लोकद्वयमेकान्वयम् । सुमनोभिश्चितास्तत्र तिलका नक्तमालका:-ज. तत्र गोपयिता-ङ, ग्लानतां-ज. "र्महीरेणौ-कु. 5 विशीर्यन्ति - ङ. " तेषां गतानामद्यापि - ङ. 7 सर्वलोक-ङ.