पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ सर्ग:] राम जानीहि मां शूरं लोकवित्रासनं पुरा - 493 कथं ते इन्द्रेण युद्धे सामर्थ्यम् ? कुपितेन • भगवता मारणमकृत्वा कुत एतद्रूपसम्पादनं? इत्यत्राह-अहं हीत्यादि । अभि- शापतो घोराकारप्राप्त्यनन्तरं उग्रेण तपसा पितामहमुतोषयम् । स्वकुलनित्यारातिविष्ण्विन्द्रादिजिगीषयेति शेषः । विश्रमः- 2 गर्वः ॥ ८ ॥ दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ? इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ।। ९ ।। तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा । सक्थिनी 'चैव मूर्धा च शरीरे संप्रवेशितम् ।। १० ।। शतपर्वणा - शतघारेण । सक्थिनी - पृष्ठास्थिफलके । शरीरे मध्यदेहे उदरभागे सक्श्नोः प्रवेशनं, उरोभागे शिरसः प्रवेशनम् ॥१०॥

स मया याच्यमानः सन् नानयद्यमसादनम् । पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ॥ ११ ॥ अथ ऊर्ध्वाधरव्यवहाररहितोऽहं मरणमयाचिषं, तन्न श्रुतवा- नित्याह –स मयेति । किमर्थ नानयदित्यत्राह --पितामहेत्यादि । मम विषये तत् पितामहवचः सत्यमस्तु । न त्वां मारयामीत्य- ब्रवीदित्यर्थः ॥ ११ ॥ अनाहारः कथं शक्त: भग्न सक्थिशिरोधरः । वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ।। १२ ।।

  • एतादृशावस्थापेक्षया मरणमेव वरमिति भावनया मरणं याच्यमानः इन्द्रः,

तदशक्यमित्याहेति भावः । 1 नतपर्वणा-ङ. ' च शिरश्चैव-ज. स्कन्धशिरोधरः - इ, स्कन्धशिरोमुखः - ज. 3