पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

490 [अरण्यकाण्ड: कबन्धनिग्रहः अस्य देवप्रभावस्य वसतो विजने वने । रक्षसाऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥ १५ ॥ यामिच्छन्ताविति । अन्वेषयन्तावित्यर्थः ॥ १५ ॥ त्वं तु को वा किमर्थ वा कबन्धसदृशो वने । आस्थेनोरसि दीप्तेन भग्नजको 2 विवेष्टसे ॥ १६ ॥ विवेष्टस इति । लुठसीति यावत् ॥ १६ ॥ एवमुक्तः कबन्धस्तु लक्ष्मणेनो'त्तरं वचः । उवाच परमप्रीतः तदिन्द्रवचनं स्मरन् ॥ १७ ॥ शापमोक्षकालप्रत्यभिज्ञानात् - तदिन्द्रबचन मिति । उत्तरसर्ग- प्रतिपाद्यमानम् ॥ १७ ॥ स्वागतं वां नरव्याघ्रौ दिष्टया पश्यामि चाप्यहम् । दिष्टया चेमौ निकृत्तौ मे युवाभ्यां * बाहुबन्धनौ ॥ १८ ॥ बह्वोः बन्धनं ययोः अंसदेशयोः, तौ बाहुबन्धनौ ॥ १८ ॥ विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा । तन्मे शृणु, नरव्याघ्र ! तच्चतः शंसतस्तव ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे सप्ततितमः सर्गः यथा यने कारणेन प्राप्तं तत् कारणं तत्त्वतः तव शंसतो मे सकाशात् श्रृणु ॥ १९ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे सप्ततितमः सर्ग:

  • बाहुरूपबन्धनौ- उत्तरसर्गे 'यदा रामः तव बाहू छेत्स्यते, तदा स्वर्ग गमिष्यसि '

इति शापमोचनदानात्, बाहू एव मम बन्धरूपौ जातौ इत्यर्थः इति वा । 2 विचेष्टसे-ज. 3 तमं - ङ. 1 भार्या - ज.