पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

482 कबन्धग्रहणम् महान्तं दारुणं 'भीमं कबन्धं भुजसंवृतम् । कबन्धमिव संस्थानात् अतिघोरप्रदर्शनम् ॥ ३४ ॥ [अरण्यकाण्ड: अथेत्यादि । अथ भुजवेष्टनं समभिक्रम्य दूरे स्थितौ तत् 18 तं क्रोशमात्रे ददर्शतुः । भुजाभ्यामेव मृगादीनां संवृतं – संवरणं Happ यस्य स तथा । संस्थानात् – देहस्थित्या | कबन्धमिव - सर्वथा अशिरस्कत्वलक्षण कबन्धवत् स्थितम् || ३३-३४ ॥ स महाबाहुरत्यर्थ प्रसार्य विपुलौ भुजौ । जग्राह सहितावेव राघवौ पीडयन् बलात् ॥ ३५ ॥ सहिताविति । नैकमपि मुक्तेत्यर्थः ॥ ३५ ॥ खड्गिनौ दृढधन्वानौ ? तिग्मतेजो' वपुर्धरौ । भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ || ३६ ॥ तिग्मं – खरं तेजः यस्य तत् तथा, तादृशवपुर्धरौ - वेषधरा- वित्यर्थः । विवशं प्राप्ताविति । बलात्कारेण कर्षण प्राप्तावित्यर्थः ॥ तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे । 'बाल्पादनाश्रयाच्चैव लक्ष्मणस्त्वतिविव्यथे || ३७ ||

- तत्र – तस्यामवस्थायाम् । बाल्यात् - बालबुद्धित्वात । अना- श्रयात् – धैर्यानालम्बनात् । अतिविव्यथे— अत्यन्तं व्यथितः - खिन्नो बभूव ॥ ३७ ॥

  • बाल्यात् - रामवदप्रौढबुद्धित्वात्- गो.

रामस्यापि कबन्धावृतत्वादिति भाव:- ति. रामस्यास्वस्थत्वेन परितप्यमानत्वात् - रा. 1 भूतं- ङ. 2 तिग्मतेजौ- ज. अनाश्रयत्वादिति पाठे— आश्रयभूतस्य अनाश्रयात् - रामरूपाश्रयराहित्यात्, 3 धनुर्धरौ- ङ. महाभुजौ-ज. VEROY A WALALA