पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

480 कंबन्धग्रहणम् तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा । संजज्ञ विपुलः शब्दः प्रभञ्जन्निव तद्वनम् || २४ ॥ संवेष्टितमिवात्यर्थं गगनं मातरिश्वना । 1

  • 2

वनस्य तस्य शब्दोऽभूत् 'दिवमापूरयन्निव ।। २५ ।। संवोष्टतं — व्याप्तम् ।। २५ ।। 6 [अरण्यकाण्ड: तिं शब्दं कांक्षमाणस्तु रामः 'कक्षे सहानुजः । ददर्श सुमहाकायं राक्षसं विपुलो रसम् ।। २६ ।। शब्द कांक्षमाण इति । तदुत्पत्तिनिमित्तमित्यर्थः ॥ २६ ॥ + आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् । विवृद्धमशिराग्रीचं कबन्धमुदरे मुखम् ॥ २७ ॥ रोमभिः निचितैस्तक्ष्णैिः महागिरिमिवोच्छ्रितम् । "नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ २८ ॥ अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता । महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ॥ २९ ॥ अस्यैव प्रपन्च:

  • वनस्य मध्ये शब्दोऽभूव-ति. वनस्य सम्बन्धिनीं दिवं-आकाशं - गो.

+ तं शब्द काङ्क्षमाणः - किमस्योत्पत्तिमूलमिति शातुमिच्छन्, गत्त्रेति शेषः, कक्षे- गुल्मे ददर्श, दूरादिति शेषः - गो. अयं श्लोकः आइत्यवादरूपः । उत्तर ठौकैः अष्टभिः । ददशेति पूर्वश्लोकोक्ताहत्यवादस्य प्रपञ्चः-आसेतुरित्यादि । ' सहानुजो ददर्श' इति कथनात् अत्र उत्तरत्र च द्विवचनम् । गहनं - ज. 2 गंभीरस्तस्य- ङ.. 3 वन-ज. 4 खड्गी-ज. 5 दरम्- ङ. आजग्मतुङ.. 7 भीममेघ- ङ.