पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

474 सौतावृतान्तपरिज्ञानम् रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः । 'शकुनाय ददौ रामः रम्ये हरितशाद्वले || ३३ || तत्र रम्ये हरितशाद्वले रोहिमांसानि चोत्कृत्य पेशीकृत्य-- पिण्डीकृत्य तस्मै शकुनाय ददौ । भरण्यकाण्ड: यत्तत्प्रेतस्य ' मर्त्यस्य कथयन्ति द्विजातयः | तत्

  • स्वर्गममनं ' तस्य पित्र्यं रामो जजाप ह ॥ ३४ ॥

यत्तु मंत्रजातं मर्त्यस्य प्रेतस्य खर्गादिगमनमुद्दिश्य कथयन्ति, तन्मन्त्रं जजाप | ब्रह्मविदामोति परम्" इत्यादिकः सः ॥ ३४ ॥ 3 66 ततो गोदावरीं गत्वा नदीं नरवरात्मजौ । उदकं चक्रतुः तसै गृध्रराजाय तावुभौ ॥ ३५ ।। S शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ । स्नात्वा तौ गृधराजाय उदकं चक्रतुस्तदा || ३६ ।।

  • स्वर्गो गम्यतेऽनेनेति स्वर्गगमनं स्वर्गप्रापकं पित्र्यं पितृदेवनाकं तत् जजाप -

याभ्यसूक्तादिकं जजापेत्यर्थ: गो. तत: --दाहानन्तरं, एतदर्थलाभस्तु पाठक्रमाद धंक्रमोबलीयानिति न्यायेन -रा. मध्ये पिण्डदानस्य कथनात् एवं व्याख्यातम् । + चक्रतुरिति लक्ष्मणस्य कर्तृत्वं सहकारितया - गो. S ननु वैदिकोत्तमो रामः कथं हीनजाति तिर्यवं वैदिकेन कर्मणा संस्कृतवान्– मैवम् तस्यात्यन्त- भक्तत्वेन जातेरपगमात् । न शूद्रा भगवद्भक्ताः विप्रा भागवताः स्मृताः । सर्ववर्णेषु ते शूद्रा ये समक्ता जनार्दने' इत्युक्तेः । न चेदं बचनं 'अपशवो वा अन्ये गो अश्वेभ्यः' इतिवत् प्रशंसापरनिति वक्तुं शक्यम्; बाधकाभावात् । ब्राह्मणस्वादि- जातिर्हि शास्त्रैकसमधिगम्या, न तु गोत्वादिवदाकृतिगम्या, येन तत्तस्यत्वमाशंक्येत । अत एवं विश्वामित्रस्यापि क्षत्रियत्वजातिरपनीता, उपनीता च ब्राह्मणत्वजातिरित्युपपादितं बालकाण्डे, उपपादयिष्यते च श्रमणीवृत्तान्ते । इदं च द्रौपदीविवाहादिवत् ऐतिहासिक- विलक्षणम्यक्तिविशेषनियतमिति च नातिप्रसंगावकाशः - गो. 3 क्षिप्रं--ज. * याम्य सूक्तं-ङ, शकुतीनां 2 मन्त्रं च -ड.