पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

470 सीतावृत्तान्तपरिज्ञानम् अनेकवार्षिको 'यस्तु चिरकाल समुत्थितः । सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ २१ ॥ अनेकवार्षिक इत्यस्यैव विवरणं-चिरकालसमुत्थितः इति ।। अरण्यकाण्ड: पश्य, लक्ष्मण ! गृध्रोऽयं उपकारी हतश्च मे । 'सीतामभ्यवपन्नो वै रावणेन बलीयसा || २२ ||

गृध्रराज्यं परित्यज्य पितृपैतामहं महत् । मम हतारयं प्राणान् मुमोच पतगेश्वरः ॥ २३ ॥ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः, सौमित्रे ! तिर्यग्योनिगतेष्वपि ॥ २४ ॥ सर्वत्रेति । सर्वजातिब्वपीत्यर्थ: ॥ २४ ॥ + सीताहरणजं दुःखं न मे, सौम्य ! तथाऽऽगतम् | यथा विनाशो गृध्रस्य मत्कृते च, परन्तप । २५ ।। राजा दशरथः श्रीमान् यथा मम महायशाः । पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ॥ २६ ॥ सौमित्रे ! हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम् ॥ २७ ॥

  • सीतामभ्यवपन्न: सीतां मोचयितुं प्रवृत्तः - -ति अभ्यासादनं-

प्रहारादि नानिश्शक्तीकरणम् । षट्ट पदधात्वोः गत्यर्थकत्वात्, सीतां प्रति रावणेन अभ्यवपन्न: -मर्मसु प्रहृतः निश्शक्तीकृत इत्यर्थः + मदर्थे अनेन प्राणा एव व्यक्ता: । अतः एतज्जन्यदुःखं यथाऽऽगतं, न तथा सीताहरणजं दुःखं आगतं प्राप्तम् । + विनाशशब्देन तज्जं दु:खमुच्यते-गो. वीर: कु. 2 समृद्धिमान्-ड.