पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीता वृत्तान्तपरिज्ञानम् येन यातो मुहूर्तेन सीतामादाय रावणः । विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ।। १२ ।।

  • विन्दो नाम मुहूर्तोऽयं स च, काकुत्स्थ ! नाबुधत् ।

अथ परमं सिद्धान्तं कालज्ञानबलादावेदयति – येनेत्यादि । येन मुहूर्तेन निमित्तभूतेन सीतामादाय रावणो याति, तन्मुहूर्तबलात् तद्विप्रणष्टं वनं जीवाजीवरूपं, तत्स्वामी-हियमाणघनस्वामी | क्षिप्रं प्रतिपद्यते – पुनः प्राप्नोति ।। १२ ।। 468 [अरण्यकाण्डः [ त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः ।] झपवद्धडिशं गृह्य क्षिप्रमेव विनश्यति ॥ १३ ॥ कोऽसौ मुहूर्तः ? इत्यत आह - विन्द इति । स च नाबुधदिति । बुध्यतेः शविकरणः व्यत्ययात् । स गवणः तं मुहूर्त निजकर्माननुकूलं नावबुद्धवान् । अतः बडिशं गृह्य गृहीत्वा झषवत् क्षिप्रमेव विनश्यति ।। 2 न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्या " रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ।। १४ ॥ यदेवमतः - :-न च त्वयेत्यादि ॥ १४ ॥ असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ १५ ॥ असंमूढस्येति । एतावत्पर्यन्तमिति शेषः ॥ १५ ॥ • * नष्टं धनं विन्दति – लभतेऽस्मिन्निति विन्दः- गो.जटायुषो वक्ष्यमाण- सद्गति प्राप्तधानुकूल्य सूचनाय वा असंमूढस्येति । अथवा रामं प्रति भाषणकाले बुद्धिभ्रंशाभावः कथ्यते । 2 वैदेयां-ज. ३ योक्ष्यसे-ङ. इदमधं कुण्डलितं-ज.